Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ सदा निष्कलङ्कैव तिष्ठति इत्युक्तवान् । तच्छ्रुत्वा च सोऽश्वपरीक्षकः प्रासीदत् । तं चाऽवदत् - मित्रम् ! त्वया मह्यं प्रभावाढ्ये रत्ने दत्ते । अहमपि तुभ्यं तादृशमेव किञ्चित् कल्याणप्रदमुपदीकरिष्यामि । अश्वानां परीक्षकोऽस्म्यहम् । यद्येतादृशः कोऽपि प्राणी मां दृष्टिगोचरो भविष्यति तर्हि तमहं तुभ्यं दास्यामि । तया च तव जीवनमपि धन्यं भविष्यति' इति । अनेन वार्तालापेन तेन स्पशेन ज्ञातं यदेष जन उपयोगी अस्ति । अस्य सकाशादेव किमपि रहस्यपर्यन्तं ज्ञातुं शक्यम् । पश्चाच्च युक्तिपूर्वकं तेन ज्ञातमपि यद् - 'जितशत्रोः सविधे प्रभावशाली अश्वोऽस्ति । स एव चाऽस्य राज्ञो राज्यस्य च सुखसमृद्ध्यादीनां मूलमस्ति ।' एनां वार्तां ज्ञात्वा चारपुरुषोऽवक् यद् - नैतत् प्रतिपत्तुं शक्यं तथापि तव वचनेषु विश्वस्तोऽहं मन्ये । किन्तु कुत्राऽस्ति सोऽश्व इत्यपि ज्ञापयतु । अहं च तस्य दिदृक्षुरस्मि' इति । निहतः सोऽश्वो राज्ञा । अस्मिन्नेव नगरे स सुरक्षितोऽस्ति किन्तु तत्स्थानं नाऽहं जानामी'त्युक्तवान् स परीक्षकः । ज्ञात्वैतावन्तं वृतान्तं स्वदेशे प्राहिणोत् स चारपुरुषः । पुनश्च ततः सन्देश आगतो यद् - ‘कथमपि सोऽश्वः संशोध्यः, पश्चाच्च चातुर्येण सोऽस्माकं राज्ये आनेतव्यः । सर्वमेतत्कार्यजातं तदश्वपरीक्षक साहाय्येनैव भविष्यति, अतः कौशलेन सर्वमेतत्कर्तव्यम्' इति । इदानीं स चारपुरुषो नित्यं तेनाऽश्वपरीक्षकेण सह नगरस्य भिन्नभिन्नस्थलं पर्यटति । स एवं कल्पते यद्-एवमेव कस्मंश्चिद्दिने तस्याऽश्वस्य दर्शनं भविष्यति । एवं च नित्यं पर्यटनं कृते सति तादृशोऽवसरोऽप्युपस्थितोऽभूत् । एकदा जिनदासः श्रेष्ठी तमश्वं नीत्वा जिनालयं गच्छति स्म । तदा तेनैव मार्गेण गच्छतौ तावुभावपि तमपश्यताम् । अश्वपरीक्षकश्च तमुपालक्षयत् । सहसा च तं चारपुरुषं प्रत्यवदत् - 'पश्य पश्य ! मित्रं राज्यस्याऽभ्युदयकारकः स एवाऽयमश्वो गच्छति ।' शोभनं ! शोभनमेतत् जातम् । अद्य मे दिक्षा पूर्णा सञ्जाता । तदर्थं धन्यवादस्तुभ्यमिति स चारपुरुषोऽवदत् । तदनु च वारं वारं स चारस्तेन मार्गेण गच्छति । एवं च तेन जिनदास श्रेष्ठिनो गृहमपि लक्षितम् । एकदा स जिनदासगृहेऽतिथिर्भूत्वा स्थितवान् । रात्रावपि स तत्रैवाऽस्थात् । अमावस्यासदृशी Jain Education International ९५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128