Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ विहङ्गावलोकनम् प्रश्नः Swamy Brahmanand, प्रश्न: Swamy Brahmanand, Matthi Kappa, Po-Kalmane, Sagar-Tk.Karnataka. मान्यसंपादकमहाभाग ! अनन्या प्रेमाशिषस्ते । नन्दनवनकल्पतरोः षष्ठ्यां शाखायां ६२ तमे पृष्टे मांसाहारत्यागप्रबोधके लेखे अन्ते एवमुच्यते, 'व्याघ्राणां प्रजातिर्नष्टा भवेदिति तु नेच्छास्पदम् । यतस्तन्नाशेन जीववैविध्यं (Bio-diversity)प्रस्खलिता भवति । व्याघ्रममारयित्वा वयं न तमुपकुर्मः किं तु स्वयमेव उपकृता भवामः' इति । अत्र विषये किंचिन्मे मन्तव्यं निवेदयितुकामोऽस्मि । व्याघ्राणाममारयित्वा अभयारण्येषु, मृगालयेषु च अवरुद्धानामेषां क्रूरप्राणिनां कृते सुपुष्कल-- मांसाहारसंपादनाय सहस्रशो मूकप्राणिनां बर्बरनिर्दयहत्या अवश्यं क्रियते। जीववैविध्य(Biodiversity)व्यसनिभिः एषा दुष्टमृगाणां व्याघ्रवृकादीनां सन्ततिं वर्धयितुकामैः सहस्रशो एवं मूकप्राणिनां बर्बरनिर्दया हत्या कथं वा समर्थ्यते ? अप्येतन्महावीरस्वामिसम्मतम् ? सुतरां नेति मे मतिः । यतो हि लेखको अन्ते सिद्धान्तयति "सृष्टेः सन्तुलनं चिरस्थायि कर्तुं महावीरस्वामिनां सिद्धान्ता एव जगतोऽत्यन्तमुपयोगिनो भविष्यन्ती"ति । महावीरस्वामी तावत् व्याघ्राणां क्रूरस्वभावमेव उन्मूल्य परिवर्तयित्वा तान् साधु संपादियतुमीहते, न तु तेषां मृगालयेषु अमयारण्येषु वा अवरुघ्य स्वातन्त्र्यहरणमीहते, नतरां तेषामाहारसपादनाय सहस्रशो मूकप्राणिनामजाविसारङ्गादीनां प्राणहरणमनुमोदते। ___मान्यसंपादक ! आगामिन्यां नन्दनवनकल्पतरोरावृत्तौ एतद्विषये संवदतु इति सविनयं प्रार्थयते प्रेम्णा ब्रह्मानन्दो यतिः। उत्तरः ___ इदमत्रवधेयम् : लेखकस्य सम्पादकानामपि चात्र विषये व्याघ्राणां रक्षणं - हत्यास्थगनमेव अभिप्रेतं, न तु अभयारण्य-संग्रहालयादिषु तद्बन्धनं तदर्थं च क्रियमाणनिर्दोषासंख्यजीवहननसमर्थनं मनसाऽप्यभिप्रेतम् । जैनसिद्धान्तो न केवलं वधनिषेधमभिप्रैति उपदिशति वा, किन्तु बन्धननिषेधोऽपि तस्याऽभिप्रेतः । न कमपि जीवं बध्नीयात् हन्याद्वेति जैनोपदेशरहस्यम् । यथा मम वध-बन्धने अप्रिये, तथैव सर्वेषामपि सत्त्वानां ते अप्रिये एव । यच्च ममाऽप्रियं, तन्मा करोमि कस्याप्युपरि - इति च जैनी सदृष्टिरिति ।। -० -0 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128