Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ घोरान्धकारव्याप्ता सा रात्रिरासीत् । सर्वत्र नीरवत्वमेव व्याप्तमासीत् । सर्वेऽपि नगरजनाः सुप्ता आसन् । न कस्याऽपि पादसञ्चारोऽपि श्रूयते स्म । एतादृशे समये स चारपुरुषः स्वशय्याया उत्थाय गृहस्य पश्चाद्भागे गतवान् । यत्र चाऽश्वो बद्धस्तत्र गत्वा तं च ततो व्यमुचत् । पश्चात् शब्दो यथा न स्यात्तथा तमारूह्य निर्गतवान् । स्वराज्यं प्रति झटिति जिगमिषुः स वेगेन तमश्वं धावितवान् । अश्वोऽपि वेगेन चलति स्म । गाढान्धकारत्वेन न स चारपुरुषो मार्ग लक्षयति स्म। किन्तु अश्वस्तु नियतस्वपरिचितमार्गेण गच्छति स्म । एवं च स नद्यास्तीरे आगत्य तत्र जलमपात् । पश्चाच्च प्रत्यागतवान् स जिनमन्दिरे, तत्र च त्रिः प्रदक्षिणीकृत्य जिनदासस्य गृहमागतवान् । चारपुरुषस्येच्छानुरूपं गमनं न कथमपि करोति सः । तस्याऽऽज्ञां न सोऽनुसरति । पुनः पुनश्च नित्याभ्यासवशात् स तेनैव मार्गेण गमनागमनं करोति । स्पशः खिन्नोऽभवत् किन्तु अश्वस्तु अश्रान्त इव वारं वारं गमनागमनं करोति । एवमेव रात्रिर्व्यतीता। अतः स्पशोऽपि भीतः सञ्जातः । अश्वं च तत्रैव तथैव च मुक्त्वा नष्टः सः । अश्वोऽपि श्रेष्ठिगृहस्य पश्चाद्भागे स्वस्थानमागत्योदस्थात् । प्रातःकाले च श्रेष्ठिना ज्ञात एष उदन्तः । कतिपयजना अपि श्रेष्ठिनेऽश्वस्य रात्रिपरिभ्रमणस्य वृत्तान्तमकथयन् । 'तदुपरि कश्चिदारूढोऽप्याऽऽसीत्' इत्यप्युक्तवन्तस्ते। द्रुतमेव श्रेष्ठिना घटनैषा राज्ञे निवेदिता । राजा प्रधान सेनापतिश्च सर्वेऽपि सावधाना अभवन् । अधिकारित्वेन नियुक्तमश्वपरीक्षकमपि राजाऽऽहूतवान् । राज्ञा पृष्टः स भीत इवोक्तवान् यद् - 'कश्चिज्जनोऽश्ववैषियिकी पृच्छां कुर्वन्नासीत्' । प्रधानेनाऽविलम्बेन गुप्तचरास्तज्जनशुद्ध्ययर्थं नियुक्ताः । स्वल्पेनैव च कालेन स परदेशीयः चारपुरुषो गृहीतस्तैः । अश्वपरीक्षकोऽपि तमुपलक्षितवान् । राजा किञ्चिद् विहस्योवाच - 'भोः अश्वपरीक्षक ! अश्वस्य परीक्षायां त्वं निपुणोऽसि तदर्थं त्वभिनन्दनसाहस्री; किन्तु मनुष्यस्य परीक्षणे तु त्वं सर्वथा निष्फलोऽसि । एनं चारपुरुषमपि त्वं नोपालक्षयत् । अनेन च त्वं प्रतारितः । इतः परं न कदापि अनवधानेन स्थातव्यम् ।' एवमुपालभ्य राजा तमश्वपरीक्षकं मुक्तवान् । तं चारपुरुषमपि क्षमां दत्वा विसृष्टवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128