Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ - द्वौ जनौ विवदेते स्म। एकः कथयति - सिंही अण्डानि मुञ्चति, कालेन तेभ्यः सिंहशिशवः प्रादुर्भवन्ति । अन्यो वदति - नैवम् । सिंही साक्षादेव शिशून् प्रसूते।। विवादो बाढं वृद्धः । तन्निराकरणं कर्तुमपारयन्तौ तौ अन्ते तृतीयजनसमीपं गतवन्तौ । तदने स्वविवादं विनिवेद्य निर्णयार्थं स पृष्टस्ताभ्याम् । तेनोच्चैर्विहस्य निगदितं - अरे रे ! युवां भद्रप्रकृती स्त इति मन्ये । युवां किमियदपि न जानीथः यत् सिंहो वनस्य राजा, सिंही च साम्राज्ञी । सा तु स्वैरमेव वर्तते सर्वेषु प्रयोजनेषु । यदि तस्या मनः स्यात् तदा साऽण्डान्यपि मुञ्चेत्, कदाचिच्च सा स्वचित्तानुरोधेन शिशूनपि साक्षात् प्रसुवीत ! ज्ञातम्? गच्छत, किमत्र विवादेन ? । - मुनिरत्नकीर्तिविजयः । लुण्टाकः - यद्यदस्ति तत्तद् ददातु, अन्यथा ..... ! पथिकः - अन्यथा? अन्यथा किं करिष्यसि ? लुण्टाकः - एवं प्रश्नयित्वा मा मां भापयतु । एष मे प्रथम एव प्रयासः । १०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128