Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 60
________________ आस्याः चिन्तनधारा JoyM ircumstiane कि किमुचितम् ? शिक्षापद्धतिरुत शिक्षणपद्धतिः ? - - मुनिरत्नकीर्तिविजयः ।। अस्ति ईसुख्रिस्तस्य जीवनस्याऽयं प्रसङ्गः। एकदा कस्या अपि स्त्रियोऽनाचारोऽन्येन केनाऽपि जनेन ज्ञातः । तेन चिन्तितं यद् - 'अस्य परिहारोऽवश्यमेव कर्तव्यः । तदर्थं त्वेषा स्त्री दण्डनीया प्रहर्तव्या च।' 'वातो वार्ता नयति' इति न्यायेन क्षणेनैव सर्वत्रैषाऽनाचारवार्ता प्रसृता । इत्यतः आमन्त्रितानामनामन्त्रितानामपि जनानां तत्र महान् सम्मर्दः सञ्जातः । केचित् किञ्चिद् ज्ञात्वा तत्राऽऽगताः, केचिदनभिज्ञा एव जनसमूहदर्शनमात्रेण तत्रोपस्थिता अभूवन्, केचिच्चाऽन्यान् पृष्ट्वा अल्पमधिकं वा श्रुत्वा तत्र स्थिता अभवन् । सर्वेषां जनानां मुखे एक एव शब्द उच्चैः श्रूयते स्म 'प्रहरन्तु ! प्रहरन्तु ! एषा पापा दुराचारिणी च, अतो मा मुञ्चन्तु'। ___ यावत् स जनसम्मर्दस्तां प्रहर्तुमुधुक्तो भवेत् तावत्तत्र ईसुख्रिस्त आगतः । 'किमर्थमेतावानाक्रोशः सर्वेषां मुखेषु दृश्यते? कस्य वा कृते एवं 'प्रहरन्तु प्रहरन्तु' इति उच्चार्यते ?' - इति तेन पृष्टम्। श्रुत्वा तस्य वचः समूहाज्जन एक उक्तवान् – 'एषा स्त्री दुराचारिणी अस्ति, पापा चाऽस्ति । अतो वयं तां प्रहर्तुमुधुक्ताः सञ्जाताः स्मः । समाजात् पापः परिहर्तव्य एव नियतम् ।' ईसुख्रिस्तस्तस्य तादृश आक्रोशोऽपि स्वस्थचित्तेन श्रुतवान् । यदा च स तूष्णीकतामभजत् तदा ईसुख्रिस्त उक्तवान् - 'सत्यं वदति भवान् । यः कश्चिदपि यदि पापाचरणं कुर्यात् तर्हि सोऽवश्यमेव दण्डनीयः । शत्रु-रोगादिवत् पापमप्युदीयमानमेव शमयितुं योग्यम् । येन समाजो हानं न प्राप्नुयात्'। एतादृशानि स्वमनोभावानुरूपाणि तस्य वचनानि एककर्णीभूय श्रुतवतां जनानामाक्रोशो द्विगुणितः सञ्जातः । यत एकस्य सत्पुरुषस्य समर्थनं तैः प्राप्तं तेषां प्रवृत्त्यर्थम् । तावच्च क्षणं विरम्य सर्वत्रैकां परीक्षकदृष्टिं प्रसार्य ईसुख्रिस्तः पुनरुवाच - 'इतिन्यायादेषा Jain Education International ४७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128