Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ तर्हि किंरूपेण स शिक्षणीय इति तु सम्यग् चिन्तनीयम् । समाजस्तु यदि मातापितृतुल्यस्तर्हि तस्मिन् द्वेषस्येाया असहिष्णुतायाश्चांशोऽपि न भवितुमर्हति । द्वेषबुद्ध्या कृता शिक्षा न न्याय्या। द्वेषबुद्ध्या कृतमवमाननमपि न शिक्षात्वेन कथ्यते। शिक्षा तु सैव यया हृदय परिवर्तनं भवेत् । __ भगवतो महावीरस्य ईसुख्रिस्तस्य गौतमबुद्धस्य च जीवनप्रसङ्गेभ्यो न कोऽप्यनभिज्ञः । प्रेम्णा हृदयावर्जनस्य सा दृष्टिवर्तमानकालेऽपि तावत्येवोपयोगिन्यमोघा चाऽस्ति यावती तत्काले आसीत् । अवमाननेन कस्याऽपि हृदयस्य परिवर्तनं जातं न ज्ञातं किन्तु प्रेम्णा स्नेहेन करुणया च भूतस्य हृदयपरिवर्तनस्याऽनेकान्युदाहरणानि सन्ति । कश्च मार्गः शोभास्पदो हितकारी लाभदायी चेति विवेकस्तु अस्माकं योग्यतामपेक्षते । उभावपि मार्गावस्माकं समक्षमेव वर्तेते । हृदये प्रतिष्ठितं प्रेम योग्यपरिणामे उचितपरिवर्तने च प्रभवत्येव । प्रत्येक मनुष्यः सहृदय एव भवति; स्यात्स सज्जनो वाऽपराधी वा । हृदयं तु प्रेम्ण एव भाषामभिजानाति तयैव च तदार्द्रमपि भवति । पुष्पं न प्रस्तरप्रहारेण विकसति किन्तु प्रकृत्याः कोमलसंस्पर्शेनैव विकसति । हृदयमपि किं न पुष्पतुल्यम् ? कठोरशिक्षातो प्रेम्णा दत्तं शिक्षणं चित्तं प्रकाशयति, आमूलचूडं परिवर्तनमपि करोति, अपराधिनश्चाऽपि जनान् सतां पङ्क्तौ स्थापयति । अतः शिक्षापद्धत्याः शिक्षणपद्धतिरेव श्रेयस्करी। ___ 'सोक्रेटिस' इति पुस्तके पठितस्य संवादस्योल्लेखोऽत्र करणीयः प्रतीयते । चिन्तनीयोऽयं संवादः। सोक्रेटिस (SOCRATES) इत्यस्य शिष्यः आसीत् एपोलोडोरसः। मार्गे एकदा तेनोक्तम् - सोक्रेटिस ! भवता अहं क्षन्तव्यः । सोक्रटिसः - न कोऽपि जनः क्षन्तव्योऽस्ति । साश्चर्यं एपोलोडोरस उक्तवान् -- कथमेवम् ? यदि मित्रं शुद्धहृदयेन क्षमां प्रार्थयेत् तथाऽपि किं न क्षन्तव्यम् ? सोक्रेटिसः - आम् ! न जानन् सन् कोऽपि स्वस्याऽनिष्टमाचरति । एपोलोडोरसः - भवतु । किन्तु, अन्यस्याऽनिष्टं स किं जानन्नेव न करोति ? तदर्थं तु किं न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128