Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ पत्रम् आत्मीयबन्धो ! चेतन ! नमो नमः श्रीगुरुनेमिसूरये ॥ Jain Education International -मुनिधर्मकीर्तिविजयः धर्मलाभोऽस्तु । अत्र सर्वेऽपि पूज्याः गुरुभगवन्त: मुनिवराश्च कुशलाः सन्ति । तत्राऽपि सर्वेषां देहे आनुकूल्यं वर्तेत एवेत्याशासे । अद्यावधि पत्रचर्चया "मनः एव संसारनिबन्धनं मोक्षकारणं च तथा मनसो लाभोऽलाभश्च तथैव कृतस्य सुकृतस्य दुष्कृतस्य वाऽनुमोदना गर्हा च करणीया" इत्यादिकं ज्ञातमेव त्वया । अद्य चित्तस्योपर्येव विमर्शस्य चिकीर्षुरहमस्मि । इदानीं "कर्मणा शुद्धिः" इति वाक्यं श्रीमद्भगवद्गीतायाः पठितम् । ननु वाक्यमेतद् गम्भीरार्थान्वितमतीव सुन्दरं चाऽस्ति । अस्ति कर्म-कार्यमेव चेतसो विशुद्धेः प्रधानं कारणम् । प्रतिक्षणं स्त्रीर्वा पुरुषो वा, बालको युवा वृद्धो वा, साधुजनो दुर्जनश्चेति निःशेषा जना: कर्म कार्यं प्रवृत्तिं वा कुर्वन्त्येव । कदाचित् कायेन देहेन च कर्माऽकुर्वन्नपि मनसा तु कर्म कुर्वते एव । न कोऽपि जीवः क्षणमपि कार्यं विना स्थातुमलम् । अस्त्वेतद् यद् निखिलमपि कर्म न चित्तशुद्धेः निमित्तम्, किन्तु कर्मयोगस्य भावनया यत्क्रियते यच्च क्रियमाणे सति चेतसि भावना अध्यवसायः परिणतिश्च निर्मला भवति तर्हि तत्कर्म चित्तविशुद्धेः कारणं भवति । भ्रातः ! चित्तं तु वेत्रयष्टिनिभं वर्तते । यथा वेत्रयष्टिः यथेच्छं वालयितुं शक्या तथैव चित्तमपि । प्रतिसमयमस्माकं प्रत्यक्षं शुभानि अशुभानि वा निमित्तान्यागच्छन्ति । न तैः दुष्टनिमित्तै: निजं रक्षितुमेकमपि स्थानमवशिष्टम् । शुभस्थानेष्वपि तेषां अशुभनिमित्तानां पादप्रसारणं प्रारब्धं एव । अद्य समस्तानि शुभानि स्थानान्यपि प्रपञ्च-अहङ्कार-ईर्ष्या-सत्तालालसा -असत्याक्षेप ६९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128