Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ अनुवादन ईया oices 2303 ANSAR 01 .88688003800msoot anRRRRREE -मुनिधर्मकीर्तिवजयः केन क्रियते ईर्ष्या? भवति यो दुर्बलः कापुरुषो वा स एवेल् करोति किन्तु न वीर्यवान् कदाऽपीढ़ें करोति । यो वीर्यवान् उत्साही पराक्रमी च स स्पर्धां कुरुते । यो दुर्बलो निरुत्साही जश्च स ईष्यां विधत्ते । । एतादृशो निरुत्साहीामृते न किमपि कर्तुं समर्थः । तस्य चित्ते न किमपि कर्तुं जिज्ञासा भवेत्, न च किमपि सुन्दरं कार्यं कर्तुमुत्साहो भवेत् । ततो हन्त ! नेदृग्जनानां घृणा, किन्तु करुणैव चिन्तनीया। * अस्माभिः तादृशं सुन्दरं कार्यं करणीयं यद्विस्मितः सन्तोऽन्ये सहजभावेन वर्णयन्ति । किन्तु किं क्रियतेऽस्माभिः ? एतदेव यदन्येषां प्रशंसनीय कार्य दृश्यते उत केनाऽपि वर्ण्यते तदा तं कार्यं संदृश्य मनसि ईर्ष्याग्निरुद्भवति । पश्चात् स तस्य गुह्यदोषान् दुर्गुणान् चैव मृगयते । ततस्तान् दोषान् मार्गयित्वा तस्य शुभगुणानपि दोषदृष्ट्यैव पश्यति, तथा खलु तत्रैव तस्याऽऽनन्दोऽपि जायते । तं विकृतानन्दं प्राप्य तदा तस्य चित्ते एवं भवति यत् "सर्वे जनाः तमाह्वयन्ति तं प्रशंसन्ते" किन्तु स कीदृशोऽस्ति तत्तु अहमेव जानामीति तथाऽपि केवलमेतादृक् चिन्तनं विकृतस्य रुग्णस्य च चित्तस्यैव लक्षणमस्ति । एतादृशी विचारधाराऽस्मान् रोगिष्ठान् तुच्छचित्तस्य स्वामिनश्च करोति । अस्माकं चित्ते न सुन्दरकार्यकरणस्य रुचिः शक्तिः वृत्तिश्चाऽपि भवति, किन्तु जाड्यमालस्यमचातुर्यं चाऽस्माभिरेवाऽस्माकं मानसे प्रबलीक्रियते तदाऽस्माकं वीर्योल्लासः इच्छाशक्तिश्च नश्यति । तत्पश्चात् मनसि या मलिना विचारश्रेणिः संजायते सैवेणूं। NRN Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128