Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ STAGE - अनुवादव अमरत्वाभीप्सा 33. 66 3030826038888 -मुनिजिनसेनविजयः ऋषभाञ्चलशिखरमारूढोऽहमेव समस्तभूमण्डलस्य प्रथमश्चक्रवर्ती इति मन्यते स्म चक्रवर्ती सम्राड् भरतः। स च गिरिशिखरे स्वस्य नामाङ्कनं कर्तुमैच्छत् । तस्य चित्ते मिथ्याभिमान आसीत् यत् “तत्र मम नामैव प्रथमं भविष्यति।" अतस्तत्र गत्वा तेन स पर्वतः आशिखरं सर्वतः सूक्ष्मदृष्ट्या विलोकितः, किन्तु तत्रत्यां स्थितिं दृष्ट्वा स स्तब्यो बभूव । पूर्वमेव तत्र पर्वतशिखरे बहूनि नामानि लिखितानि आसन् । तानि सर्वाण्यपि नामानि चक्रवर्तिनां नामान्येवासन् । तत्र एकमपि स्थानं नावशिष्टम् यत्र स स्वनाम लेखितुं शक्तो भवेत्, तेन भरतः खिन्नोऽभूत् । तदा तेन ज्ञातं यद् 'मे अभिमानो मिथ्याऽस्ति' इति । तत्पश्चात् विवशतया भरतेन अन्यस्य चक्रवर्तिनो नाम उत्कीर्णं, तदनु तत्र आत्मनो नाम लिलिखे। अथ यदा स नगर्यामागतस्तदा राजपुरोहितेन उक्तं "हे राजन् ! अपरस्य नाम उत्कीर्य स्वनाम्नः स्थापनस्य परम्परायाः भवानेवाद्यप्रवर्तकोऽभवत् ।" "को जानाति यद् भवन्नामापि केन कदा उत्कीर्येत? " इति । तदा अमरत्वं प्रति विचाराणां वैयर्थ्यमेव स्पष्टतया भरतेन ज्ञातम् । (अनूदितम्) - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128