Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 100
________________ कथा. न्याय: ईरानदेशः । 'तेहमुरस्प' नाम राजा । सर्वासां प्रजानां न्यायनीतिपूर्वकं राज्यपालनं चकार सः । एकदा एकमपराधिनं गृहीत्वा राजभटाः सभामध्ये आनयन् । राजा न्यायपालनार्थं विविधयुक्त्या प्रश्नान् अपृच्छत् । तस्य केषांचित् प्रश्नानां प्रत्युत्तरं श्रुत्वा निर्णीतवान् यद्, एष एवाऽपराधीति । ततस्तं राजमार्गं नीत्वा चत्वरे एव शतानि दण्डानि मारयन्तु' इति आज्ञापितवान् राजा । एवं श्रुत्वैव अपराधी क्रुद्धोऽभूत् । तं राजानं दुष्टा गालि: अददत् । सहसैव तत्र स्थिताः सर्वेऽपि प्रजाजनाः आसनादुत्तिष्ठा: रोषाकुलाश्च जाताः । 'अधुनैव तं दुष्टं मृत्युदण्डो भवेत्' इति श्रोतुमेव उत्कण्ठिताः ते सर्वेऽपि जनाः राजानं प्रति कुर्वन्तः उत्थिताः । तदैव राजा आह - अपराधिनं बन्धनात् मुक्तिं ददतु । Jain Education International एतच्छ्रुत्वा अहो ! एतत् किं ? इति वचनं निःसृतं जनमुखेभ्यः । एतादृशं कुतूलहमिश्रं लोकमानसात् विपरीतं च वर्तनं दृष्ट्वा जनानां चित्ते आश्चर्यं जातं इति ज्ञातं तेन राज्ञा । तत: तेन प्रोक्तं - एतद्रूपेण मेऽवमाननं कृत्वा तेन मदीयः क्रोधो द्विगुणोऽकारि । ततो यदि चेदहं इतोऽपि अधिकं अनुशासनं कुर्यां तर्हि "मया ममाऽपमानस्य प्रतीकारः कृतो भविष्यति, तच्च न न्याय्यम्” इति मन्ये । क्रोधं कारयन्तं प्रति क्रोधस्याऽकरणे एव मनुष्यत्वमौदार्यं चाऽस्ति । -मुनिधर्मकीर्तिविजयः 101 ८७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128