Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ तत्कालीनभावस्यैव। यथा-कोऽपि वणिक् धान्यादिकं विक्रीणाति । तदा यदि चेत् खलु आपणागतैः बालैः वृद्धैः वा सह नीतिपूर्वकं तुल्यतया व्यवहरेत् सः, न कानपि वञ्चयेत् तर्हि सा क्रियाऽपि तदर्थं चित्तशुद्धः कारणं भवति । यतः तस्य चित्ते तत्कार्यात् समता प्रादुर्भूताऽस्ति । तथैव नापितस्य क्रिया तु अधमाऽस्ति, वयं सर्वेऽपि तं नापितं तिरस्कुर्मः । तथाऽपि यदि नाम सः अन्येषां केशलुञ्चनकाले विमृशेत् "सदाऽहमन्येषां विशुद्धिं करोमि, किन्तु मच्चित्ते नीरन्ध्र वर्तमानान् काम-क्रोध-गर्व-विकृति-वासनादीन् दुर्गुणान् अपाकर्तुं कदा समर्थो भवेयमि"ति । तर्हि बाह्यदृष्ट्या तुच्छयाऽपि क्रियया चित्तशुद्धिः भवेत् यतो मानसे विशुद्धभावः संजातः । इत्युक्तम् महाभारतेऽपि। पूज्यपादैः चतुर्दशशतग्रन्थप्रणेतृभिः श्रीहरिभद्रसूरिभिरपि गदितम्नार्या यथाऽन्यसक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥ (योगबिन्दुसूत्रम् - २०४) अतः एव न केवलमस्माकं शासने किन्तु सर्वत्रैव न केवलं बाह्यक्रियायाः प्राधान्यं, अपि तु अन्तर्गतस्य भावस्यापि तावत्येव महत्ताऽस्ति । ततः एव शुभभावपूर्वकं विहितं दानादिकं धर्मकार्यमेव शोभनं-सफलं वा भवति । भावशून्यं दानादिकं कर्म केवलं क्रियामात्रमेव भवति, तेन न कोऽपि आभ्यन्तरो लाभः । श्रीपालचरित्रे श्रीरत्नशेखरसूरी आह - तत्थ वि भावेण विणा दाणं न हु सिद्धिसाहणं होइ। सीलं पि भाववियलं विहलं चिय होइ लोगंमि ।। भावं विणा तवो वि हु भवोहवित्थारकारणं चेव । तम्हा नियभावुच्चिय सुविसुद्धो होइ कायव्वो । ततो बन्धो! इदानीं लोके समाजे च तीर्थयात्रा-पदप्रवास-संङ्घ-प्रतिष्ठा-महोत्सवरूपायाः बाह्यप्रवृत्याः आडम्बरस्य चौरभ्रीयप्रवाहो यः प्रवर्तते सर्वतः, तस्मात् प्रवाहात् सुरक्षितान्तरेण गतिः कार्या, कदाऽपि कुत्राऽपि कथमपि तत्र बाह्यधर्मे मा मुह्येः । त्वं तु आत्मविशुद्धिमात्रं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128