Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ कस्याऽपि जनस्य स्थानं मानं वा संलक्ष्य तदनुरूपो व्यवहारस्तस्य सकाशादपेक्ष्यते । अवश्यमेव च तेन स्वस्थानमानादिकं प्रति जागरुकतया व्यवहर्तव्यम् - इत्यपेक्षायां नाऽस्ति काचिदनौचिती किन्तु यश्चाऽत्राऽऽग्रहः सेव्यतेऽस्माभिः तदनुचितम् । कोऽपि जनः प्रथमं तु 'मनुष्यः' एव । पश्चात् स स्थानेन मानेन पदेन वा विशिष्टो भवति । यत्र च मनुष्यत्वं तत्र स्खलनमपि शक्यमेव । एतत्तु सर्व एव स्वीकुर्वन्ति । यथा च स्खलनं शक्यं तथा परिवर्तनमपि तत्र सम्भवत्येव । प्रश्नस्तु केवलमस्माकं प्रतिभावस्याऽस्ति। भगवता महावीरेण तु दृढप्रहारिसदृशानां नृशंसजनानां, रौहिणेयसमानां तस्कराणां, तिर्यग्जातावुत्पन्नानां च चण्डकौशिकतुल्यसर्पाणामपि हृदयस्य परिवर्तनं कृतं स्वकरुणया । गौतमबुद्धेनाऽपि अङ्गुलिमालाद्यनेकापराधिजनानां स्वनिर्मलवाग्भिः प्रतिबोधः कृत आसीत् । अस्माकं व्यवहारस्तु तैः सार्धं प्रवर्तते ये जना एकदा आशास्पदा उपयोगिनः सज्जनाश्च आसन् किन्तु अद्य त एव स्वकर्मवशात् स्खलनवशाद्वा विपरीतमाचरितवन्तः सन्ति । किं नाम परिवर्तनं न तेषां शक्यम् ? किं सर्वथा ते हेयाः तुच्छा अवमाननीया एव सञ्जाताः ? न ह्येवमस्ति, तत्र शक्यमेव परिवर्तनं तेषां, यतस्तेषामपि हृदयमस्त्येव । तदर्थं तु अस्माभिः स्वकीयोऽभिप्रायः परिवर्तनीयो दृष्टिरपि च परिवर्तनीया। कस्याऽपि जनस्य लघ्व्या वा महत्या वा क्षते: - या च नाऽस्माभिदृष्टा, केवलं कर्णोपकर्णेन श्रुता एव - तस्या यथामति विस्तरणं, समाचारपत्रेण सामयिकेन वा प्रसारणं, तद्द्वारा च तस्य समाजे राज्ये वा हीनताख्यापनम् - इति तु नाऽस्माकं कृते शोभास्पदम् । किमतेद्स्माक - माभिजात्यम् ? किमेषैवाऽस्माकं कुलीनता? एतादृशीं पध्धतिमाचरन्तो जना अपि समाजस्य दूषणान्येव। प्रत्येकमपराधानां शिक्षाऽप्यस्ति शिक्षार्थं च नियता पध्धतिरप्यस्त्येव । प्रथमं त्वपराधस्य शुद्धिरनिवार्या । कस्याऽपि कथनमात्रेणैव न किमपि सत्यं भवति । बहुशो दृष्टमपि न तथारूपं भवति तर्हि कथनस्य तु का वार्ता ? द्वेषात् आवेशात् परोत्कर्षस्याऽसहिष्णुतायाश्च कथिताया वार्तायाः सत्यमिति कृत्वा स्वीकारोऽन्याय्य एव । न्यायकर्तरि जने तु विशाला व्यापका विवेकपूता च दृष्टिः सम्यग्ज्ञानं चाऽऽवश्यके स्तः । यदि नाम 'एषाऽस्य क्षतिः' इति सिद्धयेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128