Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ "खण्डपरशुना तूर्णं जामदग्ने ! सुधीर ! मे । दुर्विदग्धमहामोहक्षत्रयूथान् विनाशय ॥" (वृत्तं अनुष्टुप्) (३) दृष्टान्तालङ्कारः "नारीणां काञ्चनं हृद्यं गानं हृद्यं कलासु च ! पाके च लवणं हृद्यं काव्ये हृद्यं सुभाषितम् ।।" (वृत्तं अनुष्टुप्) (४) अर्थान्तरन्यासालङ्कारः १. सामान्यार्थान्तरन्यासालङ्कार : (सामान्यस्य) प्रसिद्धस्य पक्षेषु अन्वयः"स गाधिपुत्रः पिशिताशनोऽभूदथाप्यहल्या कुलटा विपन्ना । शरीरपीडा महती हि लोके अपत्यमप्यत्ति जिजीविषुः श्वा ।" "अहो नवोढां विजहौ स बुद्धो भुवं हरिश्चन्द्रपवित्रनामा। जितेन्द्रियाणां विदितं हि तेजः यतिविवेको जगतां विजेता ॥" २. विशेषार्थान्त रन्यासालङ्कारः (पक्षेषु दृष्टेभ्यः सामान्यस्य निष्पादनम् - Inductive reasoning) "पयो भुजङ्गेऽम्बुनिधौ सरिच्च विषं तथा क्षारदशामुपैति । अतो विनाशः सहवासदोषे यथा च वंशैर्हरिचन्दनस्य ॥" "सुमैश्च सूत्रं यवसं च धेन्वा महार्हणं दुग्धदशामुपैति । सता हि सङ्गे महिमानमेति यथाऽऽखुराराध्यगणाधिपेन ।" (वृत्तं उपेन्द्रवज्रा) (५) विरोधाभासालङ्कारः (६) असम्भवालङ्कारश्च "प्रचण्डसेनाबलसज्जिताङ्ग्लान् को वेद नूनं नियतोपवासी। जेतेति गान्धी निखिलन्निरस्य - निरायुधोऽसौ जगदेकवीरः ॥" सत्याग्रहसंकल्पशक्तियुतेन तपोबलेनेति विरोधपरिहारः। (वृत्तं उपेन्दवज्रा) ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128