Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ “अतिमोहश्च चापल्यं धाष्टर्यं कलहशीलता । प्रजल्पः* पारतन्त्र्यञ्च स्त्रीणां सन्ति विशेषतः ॥ " अत्रेदमवधेयम् यत् - लक्षणोक्त्यलङ्कारस्य स्वभावोक्त्यलङ्कारे नातिव्याप्तिः । यतो हि - तत्र स्वभावोक्तौ 'कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्ष्यते' इत्यद्युदाहरणवति स्वजातिस्थस्य स्वावयवभङ्गिविशेषस्य कादाचित्कस्य विवक्षास्ति । अत्र तु लक्षणोक्तौ न केवलं कादाचित्कस्य भङ्गिविशेषस्य, अपि तु यावज्जीवं तत्समुदाये विद्यमानेषु, सामाजिकसंबन्धेषु, वृत्तिव्यवहारेषु आचरणेषु विवक्षास्तीत्यस्ति विशेषः । अपि च तत्र स्वभावोक्तौ कस्यचिद् व्यक्तिगतस्य विशिष्टस्वभावस्य (Special Personal trait or mannerism) विवक्षाऽस्ति । अत्र तु लक्षणोक्तौ बहूनां लक्षणानां समुदायविशिष्टानां गुम्फनमित्यप्यस्ति विशेषः । [II ] केषाञ्चित् प्रधानालङ्काराणां स्वरचितानि रसवन्ति सुभाषितस्थानीयानि नीतिसच्चारित्र्यबोधकानि उदाहरणानि (१) रूपकालङ्कार : “भावोन्मादैर्विलासैर्नवमधुरसामोदमत्तैः कटाक्षैः पर्यायोक्त्या समाध्या सपरिकरसमासोक्तिभिश्चाङ्गरागैः । श्लेषोत्प्रेक्षादुकूलैः सुललितकलितैः चारुमुक्ताकलापैः मालाभूषैर्विचित्रैर्विलुलितयमकैर्भाव्यते काव्यलक्ष्मीः ॥” (वृत्तं स्रग्धरा) (२) परिकरालङ्कारः "भवाब्धिमग्नं परिपाहि सद्यः प्रपन्नबन्धो भव पार्वतीश ! । अगाधभक्त्या महतोडुपेन महेश ! कैवर्तक ! तारयस्व ॥" (वृत्तं उपेन्दवज्रा) "बालकृष्ण नवनीतमोषक क्षुद्रजाऽथ बहुपीडितोऽस्मि भोः । तन्निवार्य शयनाय कल्पय क्षीरवारिनिधितल्प श्रीहरे ! ॥ " ( वृत्तं रथोद्धता ) * प्रजल्पः - क्षुद्रप्रलापः (Gossip, Fribolous talk) Jain Education International ६३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128