Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अलङ्कारविषयं किञ्चित्
स्वामी ब्रह्मानन्देन्द्रसरस्वती पो. कल्मने, मत्तीकोप्प - ५७७४०१
ता. सागर, जि. शिवमोग्ग, कर्णाटक. [I] भावापत्त्यलङ्कारो लक्षणोक्त्यलङ्कारश्च तथा च केषाञ्चिदलङ्काराणां स्वरचितदृष्टान्तश्लोकाः भावापत्त्यलङ्कारः
"भावापत्तिर्जडेऽप्यर्थे मानुषत्वप्रकल्पनम् ।
मत्पत्न्यै मेघ मे मित्र हर वाचो दयामय ॥" (यत्र मेघपर्वतादिस्थावरेषु जडेष्वपि मित्रता-भ्रातृत्वादि-बन्धुत्वं सहानुभूतिः करुणादयो मानुषसहजस्वभावाः आरोप्य अनुष्ठीयन्ते तथा च तथाहरणं तदर्थमपेक्षितानि पटुकरणानि, बुद्धिसामर्थ्य, यक्तायुक्तविवेचनं, प्रणयिवलासस्य परिज्ञानं, संभोग-विरहजनितवेदनानामनुभवः आपत्सु मग्नेभ्यः सुहृद्भ्यः सहायप्रदानञ्चेत्यादिमानुषव्यवहाराः प्रकल्प्य अनुष्ठीयन्ते तत्र भावापत्तिर्नाम अलङ्कारः । उदा. - मेघसंदेशे कविसार्वभौमकालिदासप्रणीते विरहसंतप्तो यक्षो मेघमुद्दिश्य, 'हे प्रियसख! दयामय ! विदूरस्मितायै विरहसंतप्तायै मत्पल्यै अचिरादेव प्रत्यागत्य त्वया "संगच्छामि तावत्पर्यन्तं कथंकथमपि जीवं धारय हताशा मा भूरि"तीमं मे संदेशं हर प्रापय एवं सोत्कण्ठं प्रार्थयते । अन्ते संदेशमुपसंहरन् सप्रेमोत्कण्ठं प्रियसखाय प्रेमाशिषो विधाय आत्मीयतया तमापृच्छति -
"एतत्कृत्वा प्रियमनुचितं प्रार्थनादात्मनो मे सौहार्दाद् वा विधुर इति वा मय्यनाक्रोशबुद्ध्या । इष्टान् देशान् जलद विहर प्रावृषा संभृतश्रीः ।
मा भूदेवं क्षणमपि च ते विद्युता संप्रयोगः ॥" अत्रेदमवधेयम् यत् भावापत्त्यलङ्कारस्य समासोत्त्यलङ्कारे नातिव्याप्तिः, यतो हि तत्र समासोक्तौ 'अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यत्र चन्द्रोदयवर्णने प्रस्तुते रक्तादिविशेषणसाम्यात् तत्सामर्थ्याच्च नायिका-नायकवृत्तान्तस्य अप्रस्तुतस्य प्रतीतिः परिस्फूर्तिमात्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128