Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः।
करिकलभवत् ज्ञेयम् । प्रथम दिवास इति पाठे मासस्या बसानो दिवसः स एव प्रथमदिवसः तत्र पवाद्यच् । प्रथमः प्रख्याता विष्णुदिवसः प्रथमकादशीत्यर्थः । तत्रात एक शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ मासानेतान् गमय चतुर इति वाक्यम् ॥ २ ॥
(भाव०)अथ कामी स यक्षान्तस्मिन् पर्वते |विरहितान् कतिपयान मास.न् यापयित्वा क्षामक्षामाङ्गः सन् आपाढस्य प्रथमदिवसे समाश्रिततत्पर्वतशिखर तिर्यग्दन्तप्रहारिगजव. दर्शनीयं मेघं ददर्श ॥२॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो.
रन्तवाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके मवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेपप्रणयिनि जने किं पुनरसंस्थे ॥ ३ ॥ (सञ्जी०) तस्येति ॥ राजानो यक्षाः । “राजा प्रभौ नृप चन्द्रे यक्षे क्षत्रियशक्रयोः" इति विश्वः । राज्ञां राजा राजराजः कुरेरः। "राजराजो धनाधिपः” इत्यमरः । “राजाहः सखिभ्य ष्टच्" इति टच्प्रत्ययः । तस्यानुचरो वक्षः । अन्तर्वापो धीरोदात्तत्वादन्तःस्तम्भिताशः सन् । कौतुकाधानहेतोरभिलापोल्पाकारणस्य । "कौतुकं चाभिलापे स्यादत्लो नमहर्षयोः" इति विचः । तस्य मेघस्य पुरोऽग्रे कथमपि गरीयसा प्रयत्नेनेत्यर्थः । "ज्ञानहेतुविवक्षायामन्यापि कथमव्ययम् । कथमादितथाप्यन्तं यत्तगौरबबाढयोः" इत्युन्ज्वलः। स्थित्वा चिरं दध्यौ चिन्तयामास । "ध्यै चिन्तायाम्" इति धातोलिट् । मनोविकारोपशमनपर्यन्तमिति शेषः । विकारहेतुमाह-मेघालोक इति । मेवालोके मेघदर्शने सति सुखिनो ऽपि प्रियादिजनसंगतस्यापि चेतश्वित्तमन्यथाभूता वृत्तिापारो यस्य तदन्यथावृत्ति भवति । विकृतिमापद्यत इत्यर्थः । काठाश्लेषप्रणयिनि कण्टालिङ्गानानि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दरसंस्थ सति किं पुनः । विरहिणः किमुत बक्तव्यमित्यर्थः । विरहेणां मेवदर्शनमुदीपनं भवतीति भावः । अर्थान्तरन्यासोऽलंकारः। तदुक्तं दण्डिना----"ज्ञेयः सार्थान्तरन्यासा वस्तु प्रस्तुत्य किचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य बरन्तुनः" इति ॥ ३॥ (चारि०) मेघविलोकनानन्तरं यक्षः किमकादित्याह-तस्येति ।
राजराजस्य धनदस्यानुचरः किडरो यक्षस्तस्य मेघस्य पुरोऽग्रे कथमपि महता कष्टेन स्थित्वा चिरं चिरकालं दध्यो ध्यातवान् । स्वजायामभिसन्धाय विरं चिन्तयति स्मेत्यर्थः । यद्वा निजाभिप्रायममुष्मै कथयामि न वेति चिन्तयामास । केचित्सकर्मकत्वात्किमध्यज्ञायमानं वस्तु दध्याविति व्याचक्षते । प्रत्यासन्ने ऽस्मिन्दुःसहे मेघसमये कान्ताप्राणरक्षणं करोमीति व्यातवानित्यपरे । सकर्मकस्यापि कर्माविवक्षा ऽश्ववद्गच्छतात्यत्र यथा।अथवा सकर्मकत्वादध्याहारक्लेशं मत्वा नान्यथा व्याकुर्वत । अनुचरो मघसमय कोतुकाधानहेतोः पुराऽलकायाः स्थित्वा निश्चलीभूय यस्य राजराजस्य दथ्यो। अधीगर्थदयेशां कर्मगीति पष्ठी। कीदृशस्य मेघस्य कौतुकानां कुतुकानामाधानं तस्य हेतोः । कोदशाऽनुचरः । अन्तःस्तम्भितम् , बाष्पमऽश्रु येन स तथा । प्रभुत्वादहिरनिःसृतपानीयलोचनो बभूव। प्रभुत्वं चामु प्य राजराजस्य सेवकत्वात् । जलदविलोकनादस्य चेतसो बैंकलव्य किमित्यासीदित्याह---सुखिनः कान्तासहितस्यापि पुंसश्चेतो मनो मेवस्यालोको दर्शन तस्मिन् सति । अन्यथा वृत्तिर्यस्य तत्प्रकृताववस्थितेरन्यथा वर्त्तनमित्यर्थः । भवति सम्पद्यते । कण्ठे आवलेष अलिङ्गानं तत्रा प्रोतिर्यस्य तस्मिन् वल्लभालक्षगे जन दूरसंस्थऽन्तर्धानभाजि सति चित्तमन्यधावृत्ति स्यात् किं पुनः किं वक्तव्यम् । अन्यथावृत्ति भवत्प्रवेत्यर्थः । आलोके दर्शने बातो भारीपटहमानकावित्यमरः॥३॥
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96