Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ सञ्जीवनाचारित्रवर्द्धनीभावप्रबोधिनीसहितेएते उक्तप्रकाराः रमणविरहेषु अङ्गनानां विनोदा कालयापकाः। "गृहावग्रहणी देहल्यङ्गणं चत्वराजिरम्" इत्यमरः ॥२४॥ (भाव०) हे मेघ ! विरहावधेरवशिष्टान् मासान् देहल्यां पुष्पाणि निधाय गणयन्ती, नेत्रे निमील्यान्तरेव मानसिकं मत्सम्भोगमास्वादयन्ती वा मे प्रिया ते दृष्टिपथं यास्यति । यतो विरहे स्त्रीणामेते विनोदा भवन्ति ॥ २४॥ सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखी ते । मत्संदेशः मुखयितुमलं पश्य साची निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ २५ ॥ (सजी०) सव्यापारामिति ॥ सखे, अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवती ते सखी स्वप्रियां मद्वियोगो मद्विरहस्तथा तेन प्रकारेण ॥ "प्रकारवचने थाल” इति थाल्प्रत्ययः ॥ न पीडयेत् । यथा रात्राविति शेषः ॥ किंतु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ "शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उनिद्रामुत्सृष्टनिदाम् । अवनिरेव शय्या यस्यास्ताम् ॥ नियमाथं स्थण्डिलशायिनीम् । साध्वी पतिव्रताम् ॥ "साध्वी पतिव्रता" इत्यमरः ॥ अतो नान्यथा शतिव्यमिति भावः । तां त्वत्सखी मत्संदेशैर्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥" सखी धात्री च पितरौ मित्रतशुकादयः । सुखयन्तीष्टकथनसुखोपार्यवियोगिनीम् ॥” इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः। अनेन जागरावस्थोक्ता ॥ २५ ॥ (चारि०) तस्य विलोकनान्तर निशिभाषणं कर्तव्यमित्याह । सव्यापारामिति-मद्वियोगोऽहनि सव्यापारां ते सखों महलमा तया न पीडयेत् । यथा रात्रौ गुरुतरशुचं गरिष्टशोकां निर्विनोदां पीडयति । इत्यहं शङ्के । अतो भो मेव निशीयेऽर्द्धरात्रे समवातायनस्थः सन् । उन्निद्रा अवनिशयानां तां साध्या मत्सन्देशैः अलं सुखयितुं पश्य । 'अर्द्धरात्रनिशायौ द्वाविमरः । साध्वीमिति रात्रावपि सम्भाषणे हेतुः ॥ २६ ॥ (भाव० ) हे मेघ ! दिवसे गृहकर्मव्यग्रां मे प्रियां विरहस्तथा न पीडयेत् यथा रात्री, अतस्त्वं भूमिशयतां तां साध्वी निशीयिथे मत्सन्देशैः सुखय ॥२६॥ पुनस्तामेव विशिनष्टि "आधिक्षामाम्" इत्यादिभिश्चतुर्भिःआधिक्षामा विरहशयने सनिषण्णैकपाश्वा प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः। नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्षिरहमहतीमश्रुभिर्यापयन्तीम् ॥ २६ ॥ (सञ्जी०) आधिक्षामामिति ॥ आधिना मनाव्यथया । क्षामां कृशाम् ॥ “पुस्याधिर्मानसी व्यथा" इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ "झायो मः" इति निष्ठातकारस्य मकारः ॥ विरहे शयनं तस्मिन्विरहशयने ॥ पल्लवादिरचित इत्यर्थः । संनिषण्णमेकं पाश्च यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या दिशो मूले । उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनाथेम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्र कलैव शेषो यस्यास्तां हिमांशोस्त, मूर्तिमिव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96