Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहितेन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः॥ "स्याजल्पाकस्तु वाचालो वाचाटो बहुगर्यवाक्" इत्यमरः ॥ आलजाटजौबहभाषिणि" इत्यालच्प्रत्ययः ॥ किंतु हे भ्रातः मयोक्तं यत् “आधिक्षामाम्" इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ॥३१॥
(चारि० ) एतादृशी सा कथं ज्ञायत इत्याह । जान इति-भो मेघ तव सख्या मत्प्रियाया मनोमयि विषये सम्भृतस्नेहमहं जाने । अस्मात्कारणात्प्रथमविरहे इत्थंभूतां तां तर्कयामि । उत्प्रेक्षे। सुभगमात्मानं मन्यते सुभगंमन्यस्तस्य भावो मां वाचालं यत्किंचन वादिनं न खलु करोति । कुत एतदित्याह । यद्यस्मात् । हे भ्रातः निखिलं मयोक्तं तत्तेऽचिरात्प्रत्यक्षं भविष्यति । एवं भूतां तामवेक्ष्य मद्वचः सत्यमिति ज्ञास्यसीति तात्पर्यार्थः ॥ ३१ ॥
(भाव० ) हे मेघ ! मम प्रियाया मनोमयि सस्नेहमिति तस्मिन् प्रथमविरहे ईदृशी. महं तर्कयामि नाई सुन्दरंमन्यभावेन वाचालोऽस्मि । मदुक्तमचिरात्ते प्रत्यक्ष भवेत् ॥ ३१ ॥ रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्य
प्रत्यादेशादपि च मधुनो विस्मृतभूविलासम् । त्वरयासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
__ मीनक्षोभाचलकुवलयश्रीतुलामेष्यतीति ॥ ३२ ॥ (सजी० ) रुद्वेति । अलकै रुद्धा अपाङ्गयोः प्रसरा यस्य तत्तथोक्तम् । अञ्जनेन स्नेहः स्नैग्ध्यं तेन शून्यम् । स्निग्धाञ्जनरहितमित्यर्थः । अपि च किंच मधुनो मद्यस्य प्रत्यादेशानिराकरणात् । परित्यागादित्यर्थः ॥ “प्रत्यादेशो निराकृतिः" इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रूभङ्गो येन तत्। नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः। त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेषः । उपव॑भागे स्पन्दते स्फुरतीत्युपरिस्पन्दि । तथा च निमित्तनिदाने-"स्पन्दान्मूनि च्छत्रलाभ ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोरूमपाङ्गे हानिमादिशेत् ॥” इति ॥ मृगाक्ष्यास्त्वत्सख्या नयनम् । वाममिति शेषः । “वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलंकरणेऽपि च ॥” इति स्त्रीणां वामभागप्राशस्त्यात् मीनक्षोभान्मीनचलनाञ्चलस्य कुवलयस्य श्रियाः शोभायास्तुला सादृश्यमेष्यतोति शङ्के तर्कयामि ॥ ( तुल्याथरतुलोपमाभ्यां तृतीया ) इति कृयोगे तृतीया (?) ॥३२॥
(चारि० ) अपि तत्र गते सति तस्याः शुभनिमित्तं व्याचष्टे । रुद्वेति-भो मेघ त्वयि आसन्ने निकटवर्तिनि सति मृगाक्ष्या मत्प्रियाया नयनं वामनेत्रं विवक्षितैकवचनाकर्तृ मीनानां क्षोभात् परिवर्तनात् चलं यत्कुवलयं नीलोत्पलं तस्य श्रियस्तुलामेष्यतीति शड़े सम्भावयामि । कीदृशम् । अलकैरुद्धोऽपाङ्गेन प्रसरो यस्य तत् । अञ्जनेन स्नेहः स्निग्धत्वं तेन शून्यं, मधुनो मद्यस्य प्रत्यादेशात् निराकरणाद्विस्मृता भ्रूविलासा येन तत् । स्त्रीणां स्वभावत एव विलासयोगेऽपि मधुपानस्याभावान्नाभिव्यक्तिरिति भावः । उपरिस्पन्दश्चलनं यस्य तत् । "अपाङ्गौ नेत्रयोरन्तौ" । "प्रत्यादेशो निराकृतिरित्यमरः” ॥ ३२ ॥
(भाव० ) हे मेघ ! मद्विरहवशादकृतशरीरसंस्काराया मे प्रियाया अञ्जनशून्यमविलास चक्षु स्त्वद्विलोकने चलकमलशोभां प्राप्स्यते ॥ ३२॥ वामश्चास्याः कररुहपदैर्मुच्यमानो मदीय
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
For Private And Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96