Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहितेरसरताकरे-"आसक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशाभेदेषु वासुके ॥” इति ॥३४॥ (चारि०)। निजवल्लभायाः स्वस्मिन्प्रेम प्रकटयन्नाहातस्मिन्नितिहे जलद तस्मिन्काल निशीथे सा स्त्री यदि लब्धं निद्रासुखं यया सा ताशी स्यात्तहि तत्र गवाक्षमागे स्तनितविमुखो गर्जितरहित आसीनः सन् याममात्र सहस्व प्रतीक्ष्येथाः । किमर्थमित्याह । अस्याः प्रियायाः प्रगयिनि भर्तरि मयि कवित्स्वानलब्धे सति गाढं दृढं च तदुपगूढमालिङ्गन च सद्यः कण्ठात् प्रच्युतो बाहुलताग्रन्थिः पाशो यस्य तन्माभूत् । क्षणं निमील्य नेत्रे सहसा व्यबुद्धतेति वचनात् । स्वप्नापेक्षया याममात्रमिति नोक्तं किन्तु सम्भोगापेक्षया सम्भोगस्य परमावधिर्यामः । उक्तं च-"रामायां तु रतियूनामिष्टा यामावसानिकीति" ॥ ३४ ॥ (भाव०) हे मेघ ! त्वदुपसर्पणक्षणे यदि मे प्रिया मुप्ता स्यासहि याममात्रं निःशब्दः प्रतीक्षस्व । स्वप्ने लब्धे मदाढपरिरम्भे विघ्नं मा कुरु ॥ ३४ ॥ तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैजोलकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैमानिनी प्रक्रमेथाः ॥३५॥ (सी० ) तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलबिन्दुभिः शीतलेनानिलेनोत्यान्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्वय जनानिलसमाधिय॑ज्यते । यथाह भोजराजः"मृभिर्मर्दनः पादे शीतलैय॑र्जनस्तनौ । श्रुतौ च मधुरैगीतनिद्रातो बोधयेत्प्रभुम्" इति ॥ अभिनवैतनैर्मालतीनां जालकैः समं जातीमुकुलैः सह ॥ "सुमना मालती जातिः” इति । "साक सत्रासमं सह" इति। क्षारको जालकं क्लीवे कलिका कोरकः पुमान्" इति चामरः ॥ प्रत्याचस्तां सुस्थिताम् । अन्यच्च पुनरुछ्वसिताम् । श्वसेः कर्तरि क्तः। “उगितश्च" इति चकारादिप्रतिषेधः (?)। एतेनास्याः कुसुमसौकुमार्य गम्यते। त्वत्सनाथे त्वत्सहिते । "सनाथं प्रभुमित्याहुः सहित चित्ततापिनि" इति शब्दार्णवे । गवाने स्तिमितनयनां कोsसाविति विस्मयानिश्चलनेत्रां मानिनी मनस्विनाम् । जनानौचित्यासहिष्णुमित्यर्थः । विद्युदोऽन्तःस्यो यस्य स विद्युद्गर्भः । अन्तलीनविद्युत्क इत्यर्थः । “गोऽपवरकेऽनास्थे गर्भाऽनौ कुक्षिगोऽर्भके" इति शब्दार्णवे। दृष्टिप्रतिवातेन वक्तुर्मुखावलोकन प्रतिबन्धकत्वान्न विद्युता योतितव्यमितिभावः। धारो धैयविशिष्टश्च सन् । अन्यथा शालत्यादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनैः स्तनितान्येव वचनानि तेर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ्ग ॥ "प्रोपाभ्यां समर्थाभ्याम्" इत्यात्मनेपदम् ॥ ३५ ॥ (चारि०) अथ कृत्यं दर्शयन्नाह तामिति--हे जलद स्वजलस्य कणिकाभिविन्दभिः शीतलेनानिलेन वायुना मालतीनां जातीनामभिनवैर्जालकैः कलिकाभिः समं प्रत्याश्वस्तां प्रतिबुद्धां गतग्लानि वा तां प्रियामुत्थाप्य त्वं धीरैः स्तनितानि गर्जितान्येव वचनानि तैमीनिनी मनस्विनी वक्तुं प्रक्रमेथाः प्रारभेथाः । कीदृशस्त्वम् । विद्युदर्भ यस्य स तादृशः सन् । कीदृशीं वत्सनाथे त्वयुक्ते गवाने स्तिमिते निश्चले नयने यस्या भतुः सकाशात्कोप्यगच्छेदित्युत्कण्ठया वातायनदत्तचक्षुषम् । वर्षो मालत्यः पुष्प्यन्ति निशि विकसन्तीति प्रसिद्धिः । तदपादानं ततोऽपि तस्याः सौकुमार्थसूचनार्थम् ॥ ३५ ॥ (भाव०) हे मेघ ! स्वजलकणशिशिरेण वायुना तो प्रबोध्य त्वदधिष्ठितगवाक्षे निश्चल. दृष्टिं तां गर्जितरूपैर्वचनैर्वक्तुं प्रारभस्व ॥ ३५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96