Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ सीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते - (भाव) मेव ! "यस्ते पतिः शब्दवाच्यमपि त्वत्कपोलस्पर्शलोमात् करें वक्तुमु. त्सुक आसीत् , स इदानी नयनश्रोत्रयोरगोचरः सन् सोत्कणी मन्मुखेनेदमाह" इतिव्याः ॥४०॥ सादृश्यप्रतिस्वप्नदर्शनतदङ्गस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायाम्-"वियोगावस्थासु प्रियजनसहक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदास्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदित" इति । तत्र सदृशवस्तुदर्शनमाहश्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिना बईभारेषु के शान् । उत्पश्यामि प्रतनुषु नदीवीथिषु भूविलामा. नहन्तकस्मिन्कचिदपि न ते चाण्डि सादृश्यमस्ति ॥४॥ (सञ्जी० ) श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ "श्यामा तु महिलालया। लता गोवन्दनी गुन्द्रा प्रियङ्गः फलिनी फलो" इत्यमरः ॥ अङ्ग शरीरमुत्पश्यामि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकितहरिणीनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्रच्छायां मुखकान्ति तथा शिखिना बहिणां बहभारेषु बहसमूहेषु केशान् । प्रतनुषु स्वल्पासु नदीनां वोचिषु ॥ अत्र वीचीनां विशेषणोपादानेनानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे-"ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्यनुक्तगुणग्रहः ॥" इति ॥ भ्रूविलासान् "भ्रूपताकाः" इति पाठे भ्रवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र सम्बध्यते ॥ तथापि नास्ति मनोनितिरित्याशयेनाह-हन्तेति ॥ हन्त विपादे ॥ "हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः" इत्यमरः । हे चण्डि कोपने ॥ "चण्डस्त्वत्यन्तकोपनः” इत्यमरः । गौरादित्वात् डीए ॥ उपमानकथनमात्रेण न कोपितव्यमिति भावः । कचिदपि कस्मिन्नप्येकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निणोमीत्यर्थः । अनेनास्थाः सौन्दर्यमनुपममिति व्यज्यते ॥ ४१॥ । (चारि०) स्वकीय प्रेम प्रकाशयति श्यामास्थिति-हे चण्डि कोपनशीले ते सादृश्यं एकस्थं कचिदपि कुनापि नास्ति । हन्तेति खेदे । एकनाभावमेव दर्शयति । श्यामासु प्रियङ्गलतासु अङ्गमुत्पश्यामि । श्यामत्वतनुताभ्यामसाहश्यम् । चकिता स्वस्ताश्च ताश्च हरिण्यस्तासां प्रेक्षिते विलोकने दृष्टिपातानुत्पश्यामि । चन्चलत्वेन सारूप्यम् । शशिनि वक्रस्य मुखस्य छायां दीप्ति कान्तिमत्त्वानन्ददायित्वाभ्यां चन्द्रमादृश्यम् । शिखिनां मयूराणां बहभारेषु केशान् । नीलत्वबहुत्वादिना तत्तुल्यता । प्रतनुषु नदीवीचिषु कल्लोलेषु भूविलासान् । कुटिलत्वदीर्घत्वाच्च सारूप्यम् । उत्पश्यामीति सर्वत्र प्रयोज्यम् । प्रियङ्गः फलिनी श्यामेत्यभिधानचिन्तामणिः । त्वामिति । हे सुन्दरि शिलायां धातुरागैगरिकादिवणेः प्रणयकुपितां स्नेहक्रुद्धां त्वामालिख्य चरणपतितमात्मानं कर्तुं यावदिच्छामि तावन्मुहुरूपचितैः प्रवृद्ध रखैरश्रुभिमें दृष्टिरालुप्यते आच्छाद्यते । कुरः कृतान्तो विधिस्तस्मिनालेख्येऽपि नौ आवयोः सङ्गम संयोग न सहते न क्षमते । अत्र बुद्ध्या रूढिमेव चित्रलेखनादिकं विवक्षितं तु न बाह्यान्तःकरणम् । अनुरागाभावप्रसङ्गात् । “कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” इत्यमरः ॥४१॥ ( भाव० )हे मेघ ! "श्यामास्व भीतहरिणी दृष्टौ दृशं चन्द्रे मुखच्छायां मयूरपिच्छे. घुकेशान् नदी तरंगेषु भ्रूविलासान् उत्पश्यतोऽपि न तस्य तृप्तिः, यतस्तेषु ते सादृश्यं नास्ति" इति श्रूयाः ॥ ४१ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96