Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः। स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथ मे मम घेतो गाढोष्माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथ कृतम् ॥ ४५ ॥ (चारि०) सङ्क्षिप्येतेति-भी अबले दीर्घा यामाः प्रहरा यासां ता रात्रयः क्षण इव कथं सलिप्यन्ते । सर्वावस्थासु ग्रीष्ममध्यदिनासु अहरपि कथं मन्दमन्दातपं स्यात् । हे चटुलनयने वामनेत्रे इत्थं दुर्लभप्रार्थन मे चेतो गाढोष्मभिस्त्वद्वियोगे व्यथाभिरशरणमरक्षक कृतम् । गाढोष्माभिरित्यनेन मन्दातपविधातो विवक्षितः । वियोगव्यथाभिरित्यनेन रात्रिसझेपविधात इति द्रष्टव्यम् । मन्दमन्दमिति प्रकारगुणवचनमस्येति द्विवचनम् ॥ ४५ ॥ (भाव०) हे मेघ ! "रात्रे र्दीर्घयामत्वादहश्च तीव्रातपत्वात्त्वद्वियोगव्यथाभिरशरण मे चेत आकुलीकृतम्" इति ब्रूयाः ॥ ४५ ॥ न च मदीयदुर्दशाश्रवणा तव्यमित्याहनन्वात्मानं बहु विगणयन्त्रात्मनवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४६॥ ( सञ्जी०) नन्विति ॥ नम्वित्यामन्त्रणे ॥ "प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ।। ननु प्रिये, बहु विगणयन्शापान्ते सत्येवमेवं करिष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ "प्रकृत्यादिभ्य उपसंख्यानम्" इति तृतीया ॥ अवलम्बे धारयामि । यथाकथंचिजीवामीत्यर्थः तत्तस्मात्कारणात् । हे कल्याणि सुभगे, त्वत्सौभाग्येनैव जीवामीति भावः ॥ "बह्वादिभ्यश्च" इति डीए ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमःमा गच्छ ॥ " नमायोगे" इत्यडागमाभावः । तादृक्सुखिनोरावयोरीशि दुःखे कथं न बिभेमीत्याशङ्याह-कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमेन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ तस्याः क्रमेण परिपाट्या ॥ "क्रमः शक्ती परिपाटयाम्" इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तते इत्यर्थः ॥ ४६॥ (चारि०) साम्प्रतं शोकश्रवणेन सदुःखः स्यादिति तामाश्वासयति । नन्विति-बहुमङ्गलं भविष्यतीति विगणयन् जानन् आत्मना स्वयमेवात्मानमवलम्बे धारयामि । ननु शब्दोऽवधारणे । हे कल्याणि त्वमपि सुतरांकातरत्वं मा गमः । उक्तमेवार्थ संहरति । कस्यात्यन्त मतिक्रान्तावसानं नित्यमित्यर्थः । सुखमुपनतं प्राप्तं दुःखं वा एकान्तत एकान्तमुपनतम् । प्रथमार्थे तसिल् । दशावस्था चक्रनेमिक्रमेण नीचैर्वा गच्छति उपरि वा ॥ ४६॥ (भाव०) हे मेघ ! "हे कल्याणि ! विरहदुःखितोऽप्यहमात्मनैवात्मानमवलम्बे, तत्वमपि कातरत्वं मागमः, सुख दुखेहि चक्रवत्परिवत्तेते, तदावयोरपि संगमो भविष्यति" इति भूयाः ॥ ४६॥ न च निरवधिकमेतद्दुःखमित्याहशपान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ . शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96