Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः। तथा कथितं चेति । त्वदर्ता भूयश्चाहेति योजना ॥ ४८॥ (चारि० ) भूयश्चेति-भूयश्चाह पुनरपि मन्मुखे व्याचष्टे ।. पुरा पूर्वमह त्वमपि शयने सुतो तत्र में कण्ठलाला सती त्वं निहां गत्वा किसपि निसित्तं प्राप्य सत्वरं शीघ्र सशब्दं रुदती विप्रबुद्धा। ततोऽसत्पृच्छतो में मह्यं त्वया च सान्तसिं गूर्द हसित्वा कथितम् । किमिति । रे कितव धूर्त मया स्वप्ने कामपि प्रेयसी रमयन् त्वं हष्टोऽतोऽहं ईर्ष्याबशादोदिमीति वचनमभिज्ञानम् ॥४८॥ (भाव०) हे मेघ ! “हे प्रिये ! पुरा मया सहैकशयने सुप्ताऽपि किमपि वीक्ष्य सहसोत्थाय स्वप्ने कामपि स्त्रिये स्मयन् त्वं मया दृष्टोऽसि" इत्युक्तवती" इति ब्रूयाः ॥४८॥ एतस्मान्मां कुशलिनपभिज्ञानदानाद्विदित्वा मा कोलीनाचकितनयने मय्यविश्वासिनी भ्रूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा. दिष्टे वस्तुन्युपाचतरसाः प्रेमराशीभवन्ति ।। ४९ ॥ (सञ्जी०) एतस्मादिति । एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्सां कुशलिनक्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकप्रवादात् । एताता कालेन परासुनी चेदागच्छतीति जनप्रवादादित्यर्थः ॥ "स्यास्कौलीनं लोकवादे युद्धे पञ्चहिपक्षिणाम्" इत्यमरः ॥ मयि विषयेऽविश्वासिनी मरणशङ्कनी मा भून भव ॥ भवतेर्लुङ् । 'न माङयोगे” इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूवस्नेहनिवृत्तिराशोत्याह-स्नेहानिति । किमिति किंचिन्निमित्तम् । न विद्यत इति शेषः । स्नेहान्प्रीतिविरहे सत्यन्योन्यविप्रक सति सिनो विनयरानाहुः । तत्तथा न भवतीत्यभिप्रायः किंतु ते स्नेहा अभोगाद्विरहे भोगाभावाद्वतोः॥प्रसज्यप्रतिषेथेऽपि नसमास इष्यते॥ इष्टे वस्तुनि विषये। उपचितो रसः स्वादो येषु त उचितरसाः सन्तः। प्रवृद्धतृष्णा इत्यर्थः ॥ "रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः" इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ॥ स्नेहप्रेगोरवस्थाभेदावेदः । तदुक्तम्--"आलोकना भिलाषौ रागनेही ततः प्रेमा । रति शृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥" इति । तदेव स्फुटीकृतं रसाकरे--"प्रेक्षा दिदृक्षा रस्येषु तच्चिन्ता त्वभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया ॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्सम क्रीडा संयोगः सप्तधा क्रमात्"॥ इति ॥ ४९ ॥ (चारि०) एतस्मादिति-असिते कृष्णे नयने लोचने यस्यास्तत्सम्बुद्धिः। एतस्मादमुष्मादभिज्ञानदानाचिन्हकथनान्मां कुशलिनं विदित्वा कोलीनात्तस्य परस्त्रीसङ्गमः सम्भाव्य इति । लोकापवादान्मयि अविश्वासिनी माभूः। अविश्वास मा कार्षीः । कोलीनं निराचष्टे । चिरहे वियागे स्नेहात् ध्वंसिनो नष्टानाहुः । प्रचक्षते । तत्किमपि यत्किञ्चिदपि अविचाररमणीयमिति भावः । हि यस्माद्धेतोस्ते स्नेहा अभोगादिष्टे वस्तुनि उपचितरसा वर्द्धिताभिलाषाः सन्तः प्रेमराशी भवन्ति। "स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणामित्यमरः । न माझ्योगेऽडागमः ॥ ४९ ॥ (भाव० ) हे मेघ ! "हेचकितनयने ! प्रेषितसन्देशात्मकाभिज्ञानान्मां कुशलिन विदि. स्वा मय्यविश्वासिनी माभूः, विरहेऽपि भोगाभावा स्नेहोवर्द्धत एव" इति ब्रूयाः ॥ ४९॥ . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96