Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२
सञ्जीवनी चारित्रवर्द्धनीभावप्रबोधिनीसहिते
इ स्वकुशलं संदिश्य तत्कुशल संदेशानयनमिदानीं याचते-आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटानिवृत्तः । साभिज्ञानग्रहित कुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ५० ॥
( सञ्जी०) आश्वास्येति ॥ प्रथमविरहेणो दुग्रशोकां तीव्रदुःखां ते 'सखीमेवं पूर्वोक्तरीत्यावास्योपजीव्य त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कूटा : शिखारणि यस्य तस्मात् ॥ "कूटोsस्त्री शिखरं शृङ्गम्" इत्यमरः ॥ शैला कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथा तथा प्रहिनं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या बचोभिर्ममापि प्रातः कुन्दप्रसव मित्र शिथिलं दुर्बलं जीवितं धारयेथाः स्थापय । प्रार्थनायां लिङ् ॥५०॥
( चारि०) आश्वास्येति - भो मेघ प्रथमविरहेण उदग्र उत्कटः शोको यस्यास्ताम् । सखीं प्रियामेवमुक्तप्रकारेणाश्वास्याश्वासं दत्त्वा त्रिनयनस्येशस्य वृषेण वृषभेणोत्खाताः कूटाः शिखराणि यस्य तस्माच्छैलात्कैलासान्निवृतः सन् त्वं तस्या मद्वल्लभाया वचोभिर्ममापि मानसं धारयेथाः । कीदृशैः स्वाभिज्ञानेन स्त्रचिन्हेन प्रहितं कुशलं येषु तैः । कीदृशं मानसं कुन्दस्य प्रसवं पुष्पं तद्वच्छिथिलं धारयेथा इति । धृधारणेऽस्माल्लिट् । "कूटोऽस्त्री शिखरं शृङ्गमित्यमरः" ॥ ५० ॥
1
1
( भाव० ) हे मेघ ! प्रथम विरहदुःखिनीं प्रियामित्यमुपजीव्य कैलासान्निवृतस्त्वं तत्सदेशपदैः शिथिलतरं जीवितमपि रक्ष ॥ ५० ॥ संप्रति मेघस्य प्रार्थनाङ्गीकारे प्रश्नपूर्वकं कल्पयति
कच्चित्सौम्य व्यवसितामिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थ क्रियैव ॥ ५१ ॥ (स० ) कञ्चिदिति ॥ हे सौम्य, साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥ देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामीति निश्चितं किम् ॥ " कच्चित्कामप्रवेदने” इत्यमरः ॥ अभिप्रायज्ञापनं कामप्रवेदनम् ॥ न च ते तूष्णींभावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह- प्रत्यादेशात् “ करिष्यामि " इति प्रतिवचनात् ॥ "उक्तिराभाषणं वाक्यमादेशो वचनं वचः" इति शब्दार्णवे ॥ भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीकारज्ञानं तत्राह - याचितः सन्निः शब्दोऽपि निर्गर्जितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याह -- हि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषये ईप्सितार्थक्रियैवापेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवलमुत्तरमित्यर्थः ॥ " गर्जति शरदि न वर्षति वर्षाति वर्षासु निः स्वनो मेघः । नीच वदति न कुरुते न वदति सुजनः करोत्येव ॥” इति भावः ॥ ५१ ॥
1
( चारि०) साम्प्रतं जलद सन्देशप्रार्थनामङ्गीकारयन्ते । । कच्चिदिति - हे सौम्य त्वया व्यवसितुमङ्गीकृतं कच्चिदिदं मे बन्धुकृत्यं कार्यं प्रत्याख्यातुं भवतो धीरतां तूष्णीभावं न खलु तर्कयामि । तत्र हेतुमाह । निःशब्दोऽपि चातकेभ्यो जल प्रदिशसि । हि यस्माद्धेतोः प्रण
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96