Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० सावनीचारित्रर्वद्धनीभावप्रबोधिनीसहितेपश्चादा विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणत शरचन्द्रिकासु क्षपासु ॥ ४७ ॥ (सञ्जी० ) शापान्त इति ॥ शाङ्ग पाणौ यस्य स तस्मिशार्ङ्गपाणौ विष्णौ ॥ “सप्तमोविशेषणे-" इत्यादिना बहुव्रीहिः । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः” इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम्। भविष्यतीति शेषः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ॥ "त्यदादीनि सबैनित्यम्" इत्येकशेषः ॥ "त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते” इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यामीति मनस्यावर्तितम् । तं तम् ॥ वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलावं मनोरथम् । परिणताः शरश्चन्द्रिका यासां तासु क्षपासु रात्रिषु निवेक्ष्यायो भोक्ष्यावहे ॥ विशतेलद ॥ "निवेशो भृतिभोगयो।। इत्यमरः ॥ अन कैश्चित् "नमोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः" इति पर्यहारि तत्सर्वमसँगतम् । अत्र गतशेषश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति । तस्मादनुत्तोपालम्भ एव । यच्च नाथेनोक्तम् "कथमाषाढादिचतुष्टयात्परं शरत्कालः" इति, तत्राप्याकातिकसमाप्तेः शरत्कालानुवृत्तेः परिणतशरचन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव उक्त इत्यविरोध एव ॥ ४५ ॥ (चारि०) कदावयोः संयोगः स्यादित्यत आह-शापान्तइति । शाङ्गपाणी नारायणे भुजगशयनादुत्थिते सति में मम शापस्यान्तोऽवसानम् । तनैतान् चतुरो मासान् लोचने मीलयित्वा गमयातिवाहय । पश्चात् शरच्चन्द्रिकासु क्षपासु निशासु विरहकालगुणितं सङ्गल्पितं हृदयस्थापितमित्यर्थः । तं तमात्माभिलाषं आवां निर्वेक्ष्यावोऽनुभविष्यावः । इति नत्वा आपाढश्रवणयोः प्रावृट् । ततः परं शरदिति । तत्कथमाषाढात्प्रभृतिमासचतुष्टयात्परः शरदिति । न चैवं वाच्यं षड्तव इत्येकः पक्षः । वय इत्यमरः । चत्वारो वार्षिका मासा इति रामायणे। प्रयोगादन ऋतुम्रयापेक्षयोक्तत्वात ॥ १७ ॥ (भाव० ) हे मेघ ! "हे प्रिये ! विष्णोरत्थाने सति मे शापान्तो भविष्यति, अतोऽव. शिष्टमासचतुष्टयं कथमपि यापच, पश्चादावां शरच्चन्द्रिकामनोहरासु रात्रिषु तं तमात्माभिलार्ष पूरयिष्यावः" इति श्रूयाः ॥ ४॥ संप्रति तस्या मेघवञ्चकत्वशानिरासायातिगूढमभिधेयमुपदिशतिभूयश्वाहं त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा । सान्तहाँसं कथितमसकुत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयति ॥४८॥ भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वदर्ता मन्मुखेनेति शेषः । मेघवजनमेतत् । किमित्यत आह-पुरा पूर्वम् । पुराशब्दश्चिरातीते ॥ "स्यात्प्रबन्ध चिरातीते निकटागामिके पुरा" इत्यमरः ॥ शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न संभवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः । सस्वनं संशब्दम् । उच्चरित्यर्थः । रुदती सती विप्रबुद्धा । आलोरिति शेषः। असकृद् हुशः पृच्छतः । रोदनहेतुमिति शेषः । मे मम हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तास समन्दहासं यथा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96