Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७. सजीवनीचारित्रवर्द्धनीभावप्रवोधिनी पहिते (चारि०) स्वप्ने संयोगमाह । मामिति-हे अविधवे स्वप्नसन्दर्शनेषु कथमपि लब्धायास्ते निर्दयं यथा स्यात्तथा आश्लेपहेतोरालिङ्गनार्थ आकाशे प्रणिहितौ प्रेरितौ बाहू यस्य सतं मां पश्यन्तीनां स्थलदेवतानां वनाधिष्ठातृणां मुक्तावत् स्थूला अश्रुगां लेशाः कगास्तरुकिसलयेषु बहुशो न पतन्ति । न पतन्त्येवेति भावः। सम्भावनाथ नद्वयमत्र प्रयुक्तम् । तरुकिसलयग्रहणं पतिताश्रुलेशप्रकाशाय ।। ४३ ॥ (भाव० ) हे मेघ ! "तब स्वप्नदर्शने त्वामालिङ्गितुं प्रसारितभुजमपि विफलं मां पश्य. त्योवनदेवताअपि रुदन्ति" इति ब्रूयाः ।। ४३ ॥ इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह-- भित्वा सद्यः किसलयपुगन्देवदारुद्रुमाणां ये तत्क्षीरसुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाता: पूर्व स्पृष्टं यदि किल भवेदङ्गमभिस्तवेति ॥ ४४ ॥ (सञ्जी०) भित्त्वेति ॥ देवदारुद्रुमाणां किसलयपुटान्पल्लवपुटान्सद्यो भित्त्वा । तत्क्षीरस्नुतिसुरभयस्तेषां देवदारुद्रमाणां क्षीरश्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः।। तुषारादिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमागंण ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्तृतीया समेन यातीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् "कर्तृ करणयोरेव तृतीया” इति भाष्यकारः ॥ प्रवृत्ताचलिताः हे गुणवति सौशोल्यसौकुमार्याद्रिगुणसंपन्ने, ते तुषाराद्रिवाताः पूर्व प्रागेभिवतिस्तवाङ्गं स्पृष्टं भवेद्यदि किति सम्भावितमेतदिति बुद्धयेत्यर्थः ॥ "वार्तासम्भाव्ययोः किल" इत्यमरः ॥ मयालिङ्गायन्त आश्लिन्यते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्गयन्त इत्यभिधानं यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदनिरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः ॥ ४४ ॥ (चारि०) भित्वेति-हे प्रिये गुणवति गुणगगकलिने तबाङ्गं एभिः पूर्व यदि स्पृष्टं किल भवेत् इति मया ते तुषाराद्रिवाता आलिङ्ग्यन्ते । ते के । ये वाता देवदारुनुमाणां वृक्षविशेषाणां किसलयपुटान् भित्वा विकासयित्वा देवदारुद्रुमाणां क्षीरश्रुतिसुरभयः सन्तः दक्षिणेन मार्गेण प्रवृत्ता आगताः “प्रकृत्यादिभ्य उपसङ्ख्यानमिति” तृतीया । गुणवतीत्यत्र -गुणशब्देन शरीरस्य हृदयस्पर्शगुणो विवक्षितः । किलेति सम्भावनायाम् ॥ ४४ ॥ (भाव० ) हे मेघ ! "हेगुणवति ! देवदारुपत्रसुतक्षीरसुरभयो ये दक्षिणवायवस्नैस्त्व. दङ्ग स्पृष्टं भवेदिति धिया मया ते तु षाराद्विवाताः समालिंग्यन्ते" इति श्रूयाः ॥ ४४ ॥ संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्ववियोगव्यथाभिः ॥ ४५ ॥ (सञ्जी० ) संक्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः ॥ "आद्यन्तयोरर्धयामयोर्दिनव्यवहाराधियामा” इति क्षीरस्वामी ॥ क्षण इव कथं केन प्रकारेण संक्षिप्येत लघूक्रियेत । अहरपि सर्वावस्थासु । सर्वकालेष्वित्यर्थः । मन्दमन्दो मन्दप्रकारः ॥ "प्रकारे गुणवचनस्य" इति द्विरुक्तिः । "कर्मधारयवदुत्तरेषु" इति कर्मधारयवद्रावात्सुपा लुक् ॥ मन्दमन्दातपमत्यल्पसंतापं कथं स्यात् । न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96