Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदत-उत्तरमेधः । विगेधिना विधिना देवेन रुद्धमार्गः प्रतिबद्धवा स ते सहचरः तनुना कृशेन गाढतप्तेनात्पन्तसन्तप्तेन सास्त्रेण सानुगा । उत्कण्ठा वेदनास्यजातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ “तदस्य संजातम्-" इत्यादिना तच्प्रत्ययः उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरमधिकमुच्छ्वसितीति समधिकतरोच्छ्वासि तेन ॥ दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण प्रतर्नु कृशं तप्त वियोगदुःखेन सन्तप्तमश्रद्रुतमश्रुक्लिनम् ॥ अश्रु नेत्राम्बु । "रोदन चास्रमनु च" इत्यमरः । अविरतोत्कण्ठमविच्छिन्नवेदनमुष्णोच्छ्वासंतीवनिःश्चासम् । "तिग्म तीव्र स्वरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्" इति हलायुधः । अङ्गं त्वदीयं शरीरं तैः स्वसम्वेयैः संकल्पैमनोरथैविशति । एकीभवतीत्यर्थः ॥ अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥ ३९ ॥
(चारि०) सन्देशान्तरं द्यूते अङ्गनेति-हे सुन्दरि वैरिणा विधिना विधात्रा रुद्धमागे दूरस्थस्ते प्रियस्तैस्तैः सङ्कल्पैर्मनोव्यापारैस्त्वां विशति प्रवेश करोति केन केन सङ्कल्पेन केन प्रकारेण विशतीत्युत्प्रेक्षायामाचष्टे । तनुना कृशेनाङ्गेन देहेन प्रतनु अङ्ग विशति कृशत्वे निमित्तमाह । कीदृशेन गाढं तप्तेन । कीदृशं तप्तं तत्राभिव्यञ्जकमाह । सास्त्रेण बाष्पयुक्तेन तथाऽश्रद्रुतं द्रुताखें । अहिताग्न्यादिपाठात् । अश्रुपाते हेतुमाह । उत्कण्ठितेन तथाऽविरतो विच्छिन्नोत्कण्ठा यस्य तत् । आत्मधर्माऽप्युत्कण्ठादयः शरीरेऽपि प्रयुज्यन्ते उपचारात् । उत्कण्ठायामभिव्यञ्जकमाह। समधिकस्तीक्ष्ण उच्छ्वासो यस्य तेन । तथोष्णोच्छ्वासम् । विशतीति सर्वत्र योज्यम् । तिग्म तीब खरं तीक्ष्णं चण्डमुणं पटुस्मृतमिति यादवः ॥३९॥
(भाव०) हे मेघ! "देवादू दूरवर्ती ते प्रियः तनुना तप्तेन सास्त्रेण उत्कण्ठितेन सो. च्छ्वासेन च स्वाङ्गेन ताशमेव तेऽङ्ग मनोरथैर्विशति" इति ब्रूयाः ॥३९॥ संप्रति स्वावस्थानिवेदनाय प्रस्तौतिशब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता
कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ४० ॥ (सञ्जी० ) शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीनां पुरस्तादन आननस्पर्शत्वन्मुख संपर्के लोभाद्गार्थ्यात् । अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन वेणाख्येयमुच्वैर्वाच्यमपि यत्तत् । वचनमपीति शेषः। कर्गे कथयितुं लोलो लालसोऽभूत्किल ॥ "लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च" इति यादवः ॥ श्रवणविषयं कर्णपथमतिक्रान्तः तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् ॥ "पदं शब्दे च वाक्ये चाइति विश्वः ॥ इदं वक्ष्यमाणं "श्यामास्वङ्गम्" इत्यादिकं मन्मुखेन स एव ब्रूत इत्यर्थः ॥ ४०॥
(चारि०) निजप्रीतिकथनेन वल्लभायाः प्रीतिमुत्पादयति । शब्देति-स यक्षः श्रवणविषयमन्योन्यवार्ताश्रवणदेशमतिक्रान्तो लोचनाभ्यां अदृश्यो भवन् मन्मुखेनोत्कण्ठामधिकृत्य । विरचितपदं यथा स्यात्तथा तत्वमिदं वक्ष्यमाणमाह । सकः । यो यक्षः शब्द एवाख्योऽभिधेयो यस्य यद्वचनं आननशब्देनोच्चैः शब्देनाख्येयं वा। तदपि किलेति सम्भावनायां सखीनां पुरस्तादाननस्पर्शलोभात् । त्वन्मुखस्पर्शसुखाभिलाषात्ते तव कर्णे कथयितुं लोलो लम्पटोऽभूत् ॥ ४०॥
For Private And Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96