Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदत-उत्तरमेघः । ७३ संप्रति दूतस्य श्रोतृजनामिमुखीकरणचातुरीमुपदिशतिभर्तुमित्रं प्रियमविधवे विद्धि मामम्बुवाई तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरवलावेणिमोक्षात्सुकानि ॥३६॥ (सजी० ) भर्तृ रिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका । हे अविधवे। अनेन भर्तृजीवनसूचनादनिष्टाशङ्का वारयति । मां भर्तुस्तव पत्युः प्रिय मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्थापितैस्तत्संदेशैस्तस्य भर्तुः संदेशैस्त्वत्समीपमागतम् । भर्तुः संदेशकथनार्थमागतमित्यर्थः। अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमह वार्ताहरः किंतु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्दस्निग्धैः स्निग्धगम्भीरैर्ध्वनिभिर्गजितैः करणेंरखलानां स्त्रीणां वेशयस्तासां मोक्षे मोवन उत्सुकानि पथि श्रिाम्यतां श्रान्तिमापन्नाना प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सांस्त्वरयति । पान्थोपकारिणो मे किमु वक्तव्यं सुहृदुपकारित्वमिति भावः ॥ ३६॥ (चारि०) सन्देशप्रकारं दिशति भर्तुरिति, हे अविधवे सुवासिनि अमुना तव रमणो जवती. त्युक्तम् । भत्तः प्रिय मित्रं मनसि निहितैस्तत्सन्देशैः, त्वत्समीपमागतं मामम्बुवाहं विद्धि जानीहि । न केवलं तस्य मित्रमानं किन्तु त्वत्प्राप्तये तस्य प्रोत्साहकश्च भवामीत्याह । यः प्रोषितानां कार्यवशागार्यो विहाय देशान्तरं गतानां पथिकानां वृन्दानि समूहान् मन्दस्निग्धै धीरमधुरैर्ध्वनिभिजितैरबलाना भर्तृ विरहिताङ्गनानां वेणयः केशसंयमनविशेषास्तासां मोक्षोमोचनं तत्रोत्सुकानि उत्कण्ठितानि त्वरयति ॥ ३६॥ (भाव०) है मेघ ! त्वया मत्प्रिया प्रतीत्थं वक्तव्यम्, हे सौभाग्यवति यःप्रोषितान्त्वरित गृह प्रापयति तं ते पत्युमिन मेध मां विद्धि । तत्सन्देशमादाय त्वदन्तिकमागतोऽस्मि ॥३६॥ भर्तृसख्या दिज्ञापनस्य फलमाहइत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठाच्छ्वसितहृदया वीक्ष्य संभाव्य चैवम् । श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमास्किचिदूनः ॥ ३७॥ (सञ्जी०) इतीति ॥ इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सीतेव सा मत्प्रिया। उन्मुख्युत्कण्ठ्यौत्सुक्येनोच्छ्वसितहृदया विकसितचित्ता सतीत्वां वीक्ष्य सम्भाव्य सत्कृत्य च । अस्मागर्तृमैत्रीज्ञापनात्परं सर्व श्रोतव्यम् । अवहिताऽप्रमत्ता सती श्रोष्यत्येव ॥ अन्न सीताहनुमदुपाख्यानादस्याः पातिव्रत्य मेघस्य दूतगुणसम्पत्तिश्च व्यज्यते । तद्गुणास्तु रसाकरे-"ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारो निःशड़ो वक्ता दूतः स्त्रियां भवेत् ॥ इति ॥ ननु वार्तामात्रश्रवणादस्याः को लाभ इत्याशड्यार्थान्तरमुपन्यस्यति-हे सौम्य साधो, सीमन्तिनीनां वधूनाम् ॥ "नारी सीमन्तिनी वधूः" इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्रासः सन् । सुहृत्पदं विप्रलम्भशानिवारणार्थम् । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ “वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्" इत्यमरः ॥ संगमात्कान्तसम्पर्कात्किचिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥ ३७॥ (चारि०) इतीति-हे सौम्य मेघ त्वया इत्याख्याते कथिते सति सा प्रेयसी उन्मुखी सती १० मेघ० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96