Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूत-उत्तरमेघः । संभोगान्ते मम समुचितो इस्तसंवाहनानां
यास्यत्युरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ३३ ॥ (सजी० )वाम इति॥ मदीयैःकररुहपदैः ॥ "पुनर्भवः कररहो नखोऽस्त्री नखरोऽस्त्रियाम्" इत्यमरः ॥ मुच्यमानः परिहीयमाणः । नखाङ्करहित इत्यर्थः । उर्वार्नखपदास्पदत्वं तु रतिरहस्ये-"कण्ठकुक्षिकुचपावभुजोरःश्रोणिसक्थिषु नखास्पदमाहुः” इति ॥ चिरपरिचितं चिराभ्यस्तं मुक्ताजाल मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः । संप्रति नखपदोमाभावेन शीतोपचारस्य तस्य वैयर्थ्यादिति भावः ॥ त्यजतेय॑न्तात्कर्मकर्तरि क्तः । "द्विकर्मसु पचादीनां चोपसंख्यानमिष्यते” इति पचादित्वाद्विकर्मकत्वम् ॥ संभोगान्ते मम हस्तसंवाहनानां हस्तेन मनानाम् ॥ “संवाहनं मर्दनं स्यात्" इत्यमरः ॥ समुचितो योग्यः॥ सरसो रसाः परिपक्वो न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डिमसंभवात् । स चासो कदलीस्तम्भश्च स इव गौरः पाण्डुरः ॥ "गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च” इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम उरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते । “उरोः रूपन्दादति विद्यादूर्वाः प्राप्ति सुवाससः" इति निमित्तनिदाने ॥ ३३ ॥
(चारि०) वाम इति-अस्याः प्रियायाः वाम उरुश्चञ्चलत्वं चञ्चलतां यास्यति । मम सन्देशहारिणि समोपवर्तिनि सति तस्याः शुभसूचकं वामनेत्रस्फुरणं च भविष्यतीति तात्पयार्थः । कीदृशः । मदीयैः कररुहैः नखक्षतैर्मुच्यमानस्त्यज्यमानः चिरं बहुकाले परिचितमभ्यस्तं मुक्तामयं कटितटभूषणं देवगत्या विधिवशेन त्याजितः । तथा सम्भोगस्य सुरतस्यान्तेऽवसाने मम हस्तसंवाहनानां करमर्दनानां समुचितः । कनकस्य कदलीस्तम्भस्तद्वद्गौरः पाण्डुः “पुनर्भवः कररहो!नखोऽस्त्री नखरोऽस्त्रिया” मित्यमरः । योषित ऊरुमूले दत्तनखक्षतनिर्वापणाय मुक्काजालं दधति । एतया तु नखक्षतसंयोगाऽभावतो मुक्ताजालं न कृतमिति ज्ञेयम् ॥ ३३ ॥
(भाव० ) हे मेध ! त्वदवलोकनेन सम्प्रति मदीयनखाङ्कशुन्या मुक्काजालरहितो म. प्रियाया वामऊरुः शुभाशंसी स्पन्दिस्यते ॥ ३३ ॥
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या.
__दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वमलब्धे कथंचि
त्सद्यःकण्ठच्युतभुजलताग्रन्थि गाहोपगूढम् ॥३४॥ ( सञ्जी० ) तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याचेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्र प्रहरमात्रम् "द्वौ यामप्रहरौ समो” इत्यमरः । सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे-"एकवारावधिर्यामो रतस्य परमो मता। चण्डशक्तिमतो यूनोरभूतक्रमवर्तिनोः॥” इति ॥ यामसहनस्य प्रयोजनमाह-मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथंचित्कृच्छ्रेण स्वप्नलब्धे सति गाढालिङ्गानम् ॥ नपुंसके भावे कः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोग्रन्थिबन्धो यस्य तन्मा भन्मास्तु । कथंचिल्लब्धस्यालिङ्गानस्य सद्यो विघातो मा भूदित्यर्थः । न चात्र निद्रोक्तिः "तामुन्निद्राम्" इति पूर्वोक्तन निद्राच्छेदेन विरुध्यते, पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात् ॥ तथा च
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96