Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत - उत्तरमेघः । स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि तानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता यापिता तां तज्जातीयामेव रात्रिं विरहेण महती महत्त्व प्रतीयमानामुष्णैरश्रुभिर्यापयन्तीम् । यातेर्ण्यत्ताच्छतृप्रत्ययः ॥ " अर्तिही " - इत्यादिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु विपरीत इति भावः ॥ एतेन कायस्थोक्ता ॥ २६ ॥ ( चारि० ) आधिक्षामामिति - आधिर्मानसी व्यथा तेन क्षामां क्षीणां विरहशयने सन्निषण्णं एकं वामदक्षिणयोरन्यत्पाश्वं यस्याः सा तां पूर्वस्या दिशो मूले मुखे हिमांशोः कलैव कलामात्रं शेषो यस्याः ताम् । तनुं मूर्तिमिव स्थिताम् । या रात्रिर्मया सार्द्धं इच्छया कृतै रतैः क्षणमिव नीता तां रात्रिमेव उष्णैविरहजनितैरश्रुभिर्बाष्पैर्यापयन्तीं वाहयन्तीम् ॥ २६ ॥ ( भाव० ) मेघ ! मनोव्यथाभिः कृशां, विरहशयने एकपार्श्वेन शयानां सम्भोगनिशाः हमरन्तीं, बाष्पाणि मुञ्चन्तीं मे प्रियां सन्देशैः सुखय ॥ २६ ॥ पादानिन्दो र मृत शिशिराञ्जालिमार्गप्रविष्टापूर्वप्रत्यागतमभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात्सलिल गुरुभिः पक्ष्मभिश्छादयन्तीं साव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ २७ ॥ ( सञ्जी० ) पादानिति ॥ जालमार्गप्रविष्टान्गवाक्षविवरगतानमृतशिशिरानिन्दोः पादारश्मीन्पूर्वप्रीत्या पूर्व स्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्धयेति भावः । अभिमुखं यथा तथा तं तथैव निवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीव दुःसहत्वादिति भावः । चक्षुर्दृष्टि खेदात्सलिल गुरुभिरक्षुदुर्भरैः पक्ष्मभिश्छादयन्तीम् । अत एव सा दुर्दिनेऽ ह्नि दिवसे न प्रबुद्धां मेधावरणादविकसितां न सुप्तामहरित्यमुकुलिताम् ॥ उभयत्रापि नत्रर्थस्य शब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिता । एतेन विषयद्वेषाख्या षष्टी दशा सूचिता ॥ २७ ॥ ( चारि० ) पादानिति -- जालानां गवाक्षाणां मार्गेण प्रविष्टान् अमृतेन शिशिरान् इन्दोः पादान् किरणान् पूर्वप्रीत्याभिमुखगतं खेदात्तथैव यथागतं किरणेभ्यः सन्निवृत्तं चक्षुः सलिलेन गुरुभिः । पक्ष्मभिः छादयन्तीम् । सा नीरदाभियुक्तेऽन्हि दिवसे स्थलकमलिनीमिव । न प्रबुद्धांन सुप्तां तां सुखयितुं पश्येति सम्बन्धः ॥ २७ ॥ ( भाव०) हे मेघ ! जालमार्गप्रविष्टेषु चन्द्रकिरणेषु पूर्वसंस्कारवशात्तत्र गतं चक्षुः सहसैव निवर्त्तयन्ती, रुदन्तीं मेघावृतेऽह्नि न विकसितां न सङ्कुचितां स्थलकमलिनीमिव राजमानां मे प्रियां मत्सन्देशैः सुखय ॥ २७ ॥ निःश्वासेनाधिर किसलयक्लेशिना विक्षिपन्ती शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् । मत्संभोगः कथमुपनयत्स्वप्नजोऽपीति निद्रा ६७ माकांक्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् || २८ ॥ ( सञ्जी० ) निःश्वासेति । शुद्धस्नानात्तैलादिरहितस्नानात्परूपं कठिनस्पर्श नूनमा गण्डलम्बम् ॥ सुप्सुपेति समासः । अलकं चूर्णकुन्तलान् ॥ जातायेकवचनम् ॥ अधरकिसलयं क्लेशयति क्लिश्नातीति वा तेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्किनातेरण्यन्ताद्वा ता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96