Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः । यस्याः सा ॥ “तु काममनसोरपि” इति मकारलोपः ॥ देवयोनित्वाद्वान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तम्-'षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं, स लभ्यो देवयोनिभिः।” इति तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभिरादों तन्त्री कथंचित्कृच्छ्रेण सारयित्वा । आद्त्वापहरणाय करेण प्रमृज्यान्यथा वणनासंभवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपि । विस्मरणानमिपीत्यर्थः । मूर्च्छनां स्वरारोहावरोहक्रमम् । "स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि" इति संगीतरत्नाकरे ॥ विस्मरन्ती वा । "आलोके ते निपपति" इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमच्छीवशादेव ॥ तथा च रसरत्नाकरे-"वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूर्छा दशधा जायते तथा ॥” इति ॥ मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥ २३ ॥ (चारि०) उत्सङ्ग इति-सोम इव सुन्दरः सौम्यस्तत्सम्बुद्धिः हे सौम्य मेघ मलिन वसनं वस्त्रं यस्य स तस्मिन् । एतेन पातिव्रत्यं ज्ञापितम् । उत्सङ्ग वीणां निक्षिप्य नयनसलिलै वाम्बुभिरार्दो तन्त्री सारयित्वा । पाणिना संस्पृश्य मम गोत्रं नाम अश्चिन्हें यस्य तत् । गेयं गीतमुद्रातुं कामो यस्याः सा सती भूयो भूयः कथंचित्स्वयमधिकृतां आत्मप्रस्तुतां मूर्च्छनां सप्तस्वरक्रमस्थापनां विस्मरन्ती वा ते आलोके पुरा निपतति । कीदृशं विरचितानि आरोहावरोहिस्वरक्रमेण विनिवेशितानि स्थापितानि पदानि यत्र तत् । “क्रमयुक्ताः स्वराः सप्त मूर्च्छनाः परिकीर्तिताः" ॥ २३ ॥ (भाव) किंच हे मेघ ! सा मे प्रिया उत्संगे वीणां निधाय मन्नामाई गीतं गातुमिच्छन्ती तत्कालप्रवृत्तबाप्पासारैरानी वीणां कथञ्चिदपसार्य पूर्व कृतामपि मूर्च्छनां भूयः कुर्वन्ती ते दृष्टिपथं यास्यति ॥२३॥ शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः ॥ २४ ॥ (सी.) शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापितस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्तपुष्पैः ॥ देहली द्वारस्याधारदारु ॥ “गृहावग्रहगी देहलो" इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तेर्गणनया एको द्वावित्यादिसंख्यानेन भूतले विन्यस्यन्ती वा । पुष्पविन्यासैर्मासानगणयन्ती वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि संकल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भाश्चुम्बनादयो व्यापारा यस्मिस्तं मत्सङ्ग मत्संभोगरतिमास्वादयन्ती वा । " आलोके ते निपतति " इति पूर्वेण संबन्धः ॥ ननु कथमयं निश्चय इत्याशडामर्थान्तरन्यासेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमणविरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः । एतेन संकल्पावस्थोक्ता । तदुक्तम्-"संकल्पो नाथविषये मनोरथ उदाहृतः" इति ॥ त्रिभिः कुलकम् ॥ २४ ॥ " (चारि०) शेषानिति-भुवि देहल्यां पूजार्थ मुक्तविश्राणितैः पुष्पैः प्रियस्य गमनदिवसे स्थापितस्यावधेः कालनियमस्य शेषान् मासान् गणनया एकद्वित्रिचतुःपञ्चक्रमसन्य या विन्यस्यन्ती स्थापयन्ती ते तव आलोके निपतति पुरा । हदये निहित आरम्भो यस्य तं मया सह सम्भोगं आस्वादयन्ती अनुभवन्ती वा ते आलोके सति पुरा निपतति । प्रायेण ९ मेघ० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96