Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदत-उत्तरमेघः। गानाणां तामुत्कण्ठां विदुर्बुधाः ॥” इत्यभिधानात् । बालां गुरुषु विरहमत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनी वा पद्मिनीमिव । "इववद्वायथाशब्दौ"इति दण्डी, । अन्यरूपां पूर्वविपरीताकारां जातां मन्ये। हिमहतपमिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्यमिति भावः ॥ २० ॥
(चारि०) तामिति--भो जलद तां मत्प्रियां मे द्वितीयं जीवितं जानीयाः। कीदृशी परिमिता स्वल्पा कथा भाषणं यस्याः सा । तथा दूरीभूते दूरस्थे मयि सहचरे, चक्रवाके दूरस्थे चक्रवाकीमिकाम् । पूर्वोक्तानां लक्षणानामन्यथाभावमाशय व्याचष्टे । गाढोत्कण्ठां गुरुषु दुःसहेषु एषु दिवसेषु गच्छत्सु बालां तुहिनेन हिमेन मथितां पद्मिनीमिवान्यथारूपां जातां मन्ये । गाढोत्कण्ठामिति वा पाठः । वा शब्द इवार्थे ॥ २०॥
(भाव० ) हे मेघ ! प्रियवियोगिनी चक्रवाकीमिव शिशिरमथितां पद्मिनीमिव वा मया विरहितां तां बालामहमुत्पश्यामि २०॥ नूनं तस्याः प्रबलरुदितोच्छ्रननेत्रं प्रियाया
निःश्वासानामाशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विभर्ति ॥ २१ ॥ (सञ्जी०) नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् । उच्छूनेति स्वयतेः कतरिक्तः । "ओदितश्च” इति निष्ठानत्वम् । “वचिस्वपि-" इत्यादिना संप्रसारणम् । संप्रसारणाच्च” इति पूर्वरूपत्वम् । “हलः" इति दीर्घः । “छ्योः शूडनुनासिके च” इत्यूठादेशे कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या। तथा सति धातोरिकारस्य गत्यभावादूठादेशे च्छ्योरन्त्यत्वेन विशेषणाचेति ॥ एतेन विषादो व्यज्यते । निःश्वासानामशिशिरतयाऽन्तस्तापोष्णत्वेन भिन्नवर्णा विच्छायोऽधरोष्ठो यस्य तत्। हस्ते न्यस्तं हस्तन्यस्तम् । एतेन चिन्ता व्यजते। लम्बालकत्वात्संस्काराभावालम्बमानकुन्तलत्वादसकलव्यक्त्यसंपूर्णाभिव्यक्ति तस्याः प्रियाया मुर्खत्वदनुसारणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत्। विष्टकान्तः क्षीणकान्तेरिन्दोर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितकें। "नूनं तऽर्थनिश्वये इत्यमरः । पूर्ववत्तथापि न भ्रमितव्यमिति भावः ॥ २१ ॥
(चारि०) समस्तानामङ्गानां मुख्यभूतस्याननस्यान्यरूपमाह । नूनमिति--भो मेघ नुनमिति वितकें । तस्या मदल्लभायाः मुखं कर्तृ तवानुसरणमनुगमनं तेन क्लिष्टा कान्तिीप्तियस्य तस्येन्दोदैन्यं दीनभावं विभति धारयति । कीदृशं प्रबलमविच्छिन्नं यद्रादितं रोदनं तेनोच्छ्ने शोकसहिते नेत्रे यस्य तत् । तथा निःश्वासानामशिशिरतयोष्णतया भिन्नवर्णो गतलावण्योऽधर ओष्टो यस्य तत् । हस्ते वामकरे न्यस्तं स्थापितं दुःखितस्य स्त्रीजनस्य स्वभावः । संस्काराभावात् । लम्बा अलका ललाटावलम्बिनः कुटिलाः केशा यस्याः तस्य भावस्तत्त्वम् । तस्मात् असकला असम्पूर्णा व्यक्तिराकारो यस्य तत् ॥ २१॥
(भाव०) हे मेघ ! सम्प्रति मद्वियुक्तायाः प्रियाया विरहदुःखम्लानं वदनं त्वदावरणास्पष्टकान्तेश्चन्द्रस्य दशां बिभर्तीति तर्कये ॥२१॥
सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह "आलोके” इत्यादिभित्रिभिःआलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
For Private And Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96