Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः । हितैः स्थापितैः पूर्वोक्तैर्लक्षणैर्वारस्योपान्ते निकटे लिखितवपुषौ चित्रसमर्पितदेहौ शङ्खपद्माख्यौ निधी दृष्ट्वा लक्षयेः पश्येः। साम्प्रतं स्वकीयं तद्भवनं स्मृत्वा सविषादमाह। अधुना मद्वियोगेन तद्भवनं क्षामच्छायं गतकान्ति नूनमुत्प्रेक्षायाम् । अहमेवमुत्प्रेक्षे इति भावः । स्वामभिल्यां न पुष्यति । खलु प्रसिद्धौ । किमिव सूर्यापायेऽपगमे सति कमलमिव । "निधिर्ना शेवधिभेदाः पद्मशङ्खादयो निधेरि"त्यमरः । गृहदर्शनानन्तरं किं कार्यमित्याह॥१६॥ (भाव०) हे मेघ ! सूर्य विना कमलमिव विनष्टशोभं मम भवनं पूर्वोक्तैश्चिन्हैर्जानीहि ॥१७॥ निजगृहनिश्चयान्तरं कृत्यमाहगत्वा सद्यः कलभतनुतां शीघ्र संपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । अहस्यन्तभवनपतितांक तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ १८ ॥ ( सञ्जो०) गत्वेति ॥ हे मेघ, शीघसंपात एव हेतुस्तस्य, शीघ्रप्रवेशार्थमित्यर्थः । “षष्ठी हेतुप्रयोगे” इति षष्ठी ॥ "संपातः पतने वेगे प्रवेशे वेदसंविदे” इति शब्दार्णवे । सद्यः सपदि कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते "तस्यास्ती" इत्यादीना पूर्वादिष्टे रम्यसानो । निषदिनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पा भाः प्रकाशो यस्यास्ताम् । "प्रकारे गुणवचनस्य" इति द्विरुक्तिः । खद्योतानामाली तस्या विलसितेन स्फुरितेन निभा समानां विद्युत्प्रकाशः स एव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र तत्र पतितां प्रविष्टां कर्तुमर्हसि, यथा कश्चित्किचिदन्विध्यन्कचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राधीयसी दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥१८॥ (चारि०) गत्वेति--मो जलद ! शीघ्रं यथा स्यात्तथा सम्पातः सञ्चरणं तद्धतोः। कलभवत् तनुतां कृशतां सद्यो गत्वा प्राप्य प्रथमकथिते पूर्वोक्त रत्नसानौ क्रीडाशैले निषण्ण उपविष्टः सन् विद्युत उन्मेष उन्मीलनं स एव दृष्टिः प्रकाशत्वात् तामन्तर्भवनपतितां भवनमध्यपतितां कर्तुमर्हसि । कीदृशीमतिशयेन अल्पा अल्पाल्पा भा यस्याः सा ताम् । अत एव खद्योतानां ज्योतिरिङ्गणानां आल्याः पविलसितं स्फुरणमिव निभाति ताम् । अहसीति "अर्हमहपूजायाम् ।" धातूनामनेकार्थत्वात्तत्र स्थितां मद्भार्या द्रक्ष्यसीत्यर्थः । कलभस्त्रिंशददइत्यभिधानचिन्तामणिः ॥१८॥ (भाव०) हे मेध ! करिशावकशरीरमिव स्वां तनुं विधाय तत्र क्रीडाशैले समुपविश्य भवनमध्ये विद्युदुन्मेषरुपां दृष्टिं कर्तु मर्हसि ॥१८॥ संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाहतन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणांप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां __ या तत्र स्थायुवतिविषये सृष्टिरायेव धातुः ॥ १९ ॥ (सञ्जी० ) तन्वीति ॥ तन्वी कृशाङ्गी, न तुपीवरी । “श्लक्ष्णं ददं कृशं तनु" इत्यमरः । "वोतो गुणवचनात्" इति डीए । श्यामा युवतिः । “श्यामा यौवनमध्यस्था" इत्युत्पलमा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96