Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ सञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहिते (भाव०) अथ तत्रोङ्गीर्णजलस्त्वं नर्मदाया गजमदसुरभि जम्बूकुओपगतं जलमादाय गच्छ । इत्थं सजलं घृतगरिमाणं त्वां पवनस्तुलयितुं न शक्नुयात् । अन्तःसारशून्यः सर्वोऽपि लघुत्वमेव गच्छति । पूर्णत्वमेव गौरवापादकं भवति ॥ २० ॥ नीपं दृष्ट्रा हरितकपिशं केसरैरर्धरूडराविर्भूतप्रथममुकुलाः कन्दलीचानुकच्छम् । जग्ध्वा रण्येष्वधिक सुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥ (सञ्जी०) नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ " सारङ्गश्चातके भृङ्गे कुरङ्ग व मतङ्गजे" इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः केसरैः किञ्जल्कैर्हरित पालाशवर्णं कपिशं कृपीतं च ॥ " पालाशो हरितो हरित्” इति । "श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते" इति चामरः ॥ श्यामवर्णमिति यावत् ॥ "वर्णो वर्णेन" इति समासः॥ नीपं स्थलकदम्बकुसुमम् ॥ "अथ स्थलकदम्बके । नीपः स्यात्पुलके" इति शब्दार्णवे ॥ दृष्ट्वा संप्रेक्ष्य । विदित्वेति यावत्। तथा कच्छेष्वनूपेष्वनुकच्छम् ॥ "अव्ययं विभक्ति-" इत्यादिना विभक्त्यर्थेऽव्ययीभावः ॥ "जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इत्यमरः ॥ आविर्भूताः प्रथमाः प्रथमोत्पन्ना मुकुला यासां ताः कन्दली भूमिकदलीः ॥ " द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि” इति शब्दार्णवे । जग्ध्वा भक्षयित्वा ॥ "अदो जग्धिः -" इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभिमतिघ्रा तर्पणम् ॥ " दग्धारण्येषु ” इति पाठे "दग्धम्" इत्यधिकविशेषणम् ॥ अर्थवशात्कन्दलीश्च Searcast ष्टव्यः ॥ उर्व्या भूमेर्गन्धमाघ्राय जललवमुचो मेघस्य ते तव मार्ग सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकायें कन्दली मुकुलनीपकुसुमादिकं दृश्यते तत्र तत्र त्वया वृष्टमित्यनुमीयत इति भावः ॥ प्रक्षिप्तमपि व्याख्यायते अम्भोबिन्दुग्रहणचतुरांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ अम्भ इति ॥ अम्भोबिन्दूनां वर्षोदविन्दूनां ग्रहणे । “सर्वे सहापतितमम्बु न चातकस्य हितम्" इति शास्त्राद् भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे चतुरांचातकान्वीक्षमाणाः कौतुकात्पश्यन्तः श्रेणीभूता बद्धपंक्तीः ॥ अभूततद्भावे त्रिः ॥ बलाका बकपङ्कीः परिगणनयैका द्वे तिस्र इति संख्यानेन निर्दिशन्तो हस्तेन दर्शयन्तः सिद्धाः स्तनितसमये त्वदूर्जितकाले सोत्कम्पान्युत्कम्पपूर्वकाणि प्रियसहचरीणां संभ्रमेणालिङ्गितान्यासाद्य । स्वयं ग्रहणाश्लेषसुखमनुभूयेत्यर्थः । त्वां मानयिष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥२१॥ 1 ( चारि०) नीपमिति । भो मेघ ! सारङ्गाश्चातकभृङ्गकुरङ्गमतङ्गजास्ते मार्ग पन्थानं सूचयिष्यन्ति । किं कृत्वा - नीपं दृष्ट्वा कदम्बं वीक्ष्य । किंविधम् । अर्द्धरूढैः अद्धोत्पन्नैः केसरैः foreseeaafi एतेन भृङ्गाः सूचयिष्यन्ति । तव मागं अनुकच्छं कच्छसमीपे । कन्द वीक्ष्य । किंविधाः आविर्भूताः प्रकटीभूताः प्रथमं पूर्व मुकुलाः कुड्मला यासु तास्ताः । एतेन भृङ्गाः सूचयिष्यन्ति । पुनः किं कृत्वा दग्धारण्येषु उर्व्या गन्धं आत्राय । किंविधम् । अधिकसुरभिम् । एतेन हस्तिनः सूचयिष्यन्ति । किंविशिष्टस्य ते । जललवमुचः शीकरान् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96