Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूत - उत्तरमेघः ।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
५३
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ४ ॥
( सञ्जी० ) मन्दाकिन्या इति ॥ यत्रालकायाममरैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः । “कन्या कुमारिकानार्योः" इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैर्मरुद्भिः सेव्यमानाः सत्यः । तथानुतरं तटेषु रोहन्तीत्यनुतटरुहः ॥ क्विप् ॥ तेषां मन्दाराणां छाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यैर्मणिभी रतैः संक्रीडन्ते गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक् - क्रीडन्तीत्यर्थः ॥ "क्रीडोऽनुसंपरिभ्यश्च" इत्यात्मनेपदम् ॥ "रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता ॥ रासक्रीडा गूढमणिगुप्तकेलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककल्यः ॥” इति शब्दार्णवे ॥ ४ ॥
( चारि०) भूयोऽपि तां वर्णयति । मन्दाकिन्या इति यत्रालकायां कन्या अन्वेष्टव्यैर्गवपणीयैः कनकमयीषु सिकतासु वालुकासु मुष्टिनिक्षेपेण गूढैर्गुप्तैर्मणिभिः कृत्वा सङ्क्रीडन्ते दीव्यन्ति । कीदृश्यः अमरैः प्रार्थिता याचिताः । तथा मन्दाकिन्याः सलिलेन शिशिरैः शीतलैर्मरुद्भिः पवनैः सेव्यमानाः । तये अनुतटं रोहन्तीति रुहस्तेषां मन्दाराणां कल्पतरूणां छायया वारितोष्णाः । सङ्क्रीडन्त इति " क्रीडोनुपसंपरिभ्यश्चेति" तङ् ॥ ४ ॥
I
( भाव० ) हे मेघ ! यत्र सुरप्रार्थितसौन्दर्या यक्षकन्या मन्दाकिनीपुलिने तत्रत्यैः शीतैवतैः सेव्यमानास्तटभुवां मन्दाराणां छायासु कनकसिकतासु मणि निक्षिप्य तदन्वेषणक्रीडां क्रीडन्ति तामलकां व्रज ॥ ४ ॥
नीवीबन्धोच्छ्वसितिशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभूतकरेष्वाक्षिपत्सु प्रियेषु । अचिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलमेरणा चूर्णमुष्टिः ॥ ५ ॥
( सञ्जी०) नीवीति ॥ यत्रा लकायामनिभृतकरेषु चपलहस्तेषु प्रियेषु । नीवी वसनग्रन्थिः ॥ " नीवी परिपणे ग्रन्थों स्त्रीणां जवनवाससि" इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादाक्षिपत्स्वाहरत्सु सत्सु arti farणाम् । बिम्बं बिम्बिकाफलम् ॥ "बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले" इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणाम् "विशेषाः कामिनीकान्ताभीरुविम्बाधराङ्गनाः” इतिशब्दाचे ॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चिभिर्मयूखैस्तुङ्गान् “अचिर्मयूख शिखयोः" इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापणाक्षमत्वान्निष्फलयेगा भवति ॥ अत्राङ्गनानां रखप्रदीपनिर्वापणप्रवृत्या मौध्यं व्यज्यते ॥ ५ ॥
1
( चारि० ) लिङ्गान्तरेण पुनरपि तां ज्ञापयति । नीवीति - यत्रालकायां कामादनिभृता व्याप्रियमाणा येषु तेषु प्रियेषु वल्लभेषु नीवीबन्धः परिधानवासो विन्यासविशेषस्तस्योच्छ्वसितेन विकासेन शिथिलं वासो वस्त्रमाक्षिपत्सु सत्सु हीमूढानां लज्जामुग्धानां यक्षाङ्गनानां चूर्णमुष्टिर्मुष्टिमुखा वास कर्पूरादिर्विफलप्रेरणा भवति । किं कृत्वा अर्चिस्तुङ्गान् दीप्तिभिरुच्चान् रत्नान्येव दीपास्तानभिमुखं प्राप्य । कोऽर्थः । मुग्धा यक्षाङ्गनाः सुरतक्षणे दीपशमनाय चूर्णंमुष्टि प्रक्षिपन्ति । रत्नदीपानां विनाशाभावाद्विफला भवन्तीति भावः ॥ ५ ॥
For Private And Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96