Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहितर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि येषां तैहारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्रयमभिसारिकाणां मार्ग इत्यनुमीयत इत्यर्थः ॥९॥ (चारि०) पुनरप्येनां वर्णयति । गतीति-यत्रालकायां सवितुरादित्यस्योदये एभिः कामिनीनां स्त्रीणां नैशो निशासम्बन्धी मार्गः सूच्यते ज्ञाप्यते इत्यर्थः । एभिः कैरित्याह । गतेर्गमनात् उत्कम्पस्तस्मादलकेभ्यः पतितः सस्तैर्मन्दारपुष्पैः सुरतकुसुमैस्तथा क्लुप्त रचितं छेदूयं छेदो येषां तैः कनकमलेहेमपद्मैः । कीदृशैः कर्णभ्यो वित्रंसिभिश्च्युतहारैश्च कि विशिष्टैः । मुक्तासु मौक्तिकेषु लग्नः स्तनानां कुचानां परिमलः सौगन्ध्यं येभ्यस्ते तैः। छिन्नानि त्रुटितानि सूत्राणि तन्तवो येषां तैः ॥९॥ । ( भाव० ) ययालकायां मार्गे च्युतैर्मन्दारपुष्पकर्णाभरणहारमुक्तादिभिः सूर्योदये ऽभिसारिकाणां गमनमनुमीयत तामलकां व्रज ॥९॥ मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोधै स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ १० ॥ (सञ्जी०) मत्वेति ॥ यत्रालकायां मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः ॥ "राजाहःसखिभ्यष्टच्" ॥ तं देव महादेवं साक्षाद्वसन्तं सखिस्नेहान्निजरूपेण वर्तमान मत्वा ज्ञात्वा भयाद्भालेक्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति ॥ कथं तर्हि तस्य कार्यसिद्धिरत आह-सभ्रूभङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्ग प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येषु तैस्तथोक्तः कामिन एव लक्ष्याणि तेष्वमोधैः । सफलप्रयोगॅरित्यर्थः । मन्मथचापोऽपि क्वचिदपि मोवः स्यादिति भावः ॥ चतुराश्च ता वनिताश्च तासां विभ्रमैविलासैरेव सिद्धो निष्पन्नः। यदनर्थकरं पाक्षिकफलं च तत्प्रयोगावर निश्चितसाधनप्रयोग इति भावः ॥१०॥ (चारि० ) मत्वेति-यत्र पुयीं धनपतेर्धनदस्य सखा त महेशं साक्षात्प्रत्यक्ष वसन्त तिष्ठन्तं मत्त्वा प्राय उत्प्रेक्षायामव्ययम् । भयात् तृतीयनेत्रवन्हिभीतेः षट्पदा भ्रमरा एव ज्या यस्य तं चापं न वहति न दधाति मयि तमुद्देशं प्राप्ते स्मरपीडा कथं भवित्रीत्याशङ्याह । तस्य स्मरस्यारम्भः प्रवृत्तिः सभ्रूभङ्ग भ्रूकुटिलं यथा स्यात्तथा प्रहितनयनैः प्रेषितनेत्रैः कामिन एव लक्ष्याणि शरव्यानि तेषु । अमोघेः सफलैश्चतुराणां वनितानां विभ्रमविलासैरव सिद्धो निष्पन्नो भवेत् । “मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपितादशः।" इति दण्ड्यलारे ॥१०॥ (भाव०) हे मेघ ! यत्राऽलकायां कामोऽपि शिवं स्वयं स्थितं दृष्ट्वा तद्भीत्या भ्रमरमौर्वीके स्वं चापं न वहति, किन्तु चतुरस्त्रीनेत्रविलासैरेव तत्कायं साधयति तामलकां व्रज ॥१०॥ "कचधाय देहधार्य परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणां मन्मथदेशिकम् ॥" इति रसाकरे । तदेवैतदाहवासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयभूषणानां विकल्पान् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्या मेकः सूते सकलमवलामण्डनं कल्पवृक्षः ॥ ११ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96