Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेषः । ५५ (चारि०) भूयोऽपि चिन्हान्तरेण ज्ञापयति । यत्रेति--यत्रालकायां तन्तुमयं जालं तन्तुजालमानायस्तवावलम्बन्ते प्रासादानामुपरितनेषु भागेषु चन्द्रमणिबन्धरचना तन्तुजालस्थिता इति भावः । तव रोधस्यापगमे सति विशदैश्चन्द्रस्य पादैमयूखैनिशीथे रजन्यां स्फुटान जललवान् स्यन्दिनश्चन्द्रकान्ताः प्रियतभुजोच्छ्वासितानां प्रियतमभुजहढालिङ्गितानामित्यर्थः । स्त्रीणां सुरतजनितामङ्गग्लानि व्यालुम्पन्ति नाशयन्ति । जालं समूहआनायगवाक्षक्षारकेष्वपीत्यमरः । यन्त्रजालेति पाठे यन्त्राणि पुत्रिकाप्रभृतीनि तद्युक्तेषु जालेषु लम्बमाना इति ॥७॥ (भाव० ) हे मेघ ! यन्त्र निशीथे चन्द्रसम्बन्धेन क्षरन्तो भवनचन्द्रकान्ता उद्दामक्रीडाकान्तानां स्त्रीणां सुरतश्रमं हरन्ति तालमकां बजेः ॥ ७॥ ... अक्षय्यान्तभवननिधयः प्रत्यहं रक्तकण्ठ रुद्रायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ८ ॥ (सञ्जी० ) अक्षय्येति॥ यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ "अय्यजय्यौ शक्याथें" इति निपातः । ततो नभ्समासः ॥ भवनानामन्तरन्तवनम् ॥ "अव्ययं विभक्ति-" इत्यादिनाव्ययीभावः ॥ अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसंभावनार्थमिदं विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः॥ "वारस्त्री गाणिका वेश्या रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात्" इत्यमरः ॥ बद्धालापाः संभावितसंलापाः कामिनः कामुकाः प्रत्यहमहन्यहनि ॥ "अव्ययं विभक्ति-" इत्यदिना समासः । रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनपतियशः कुबेरकोर्तिमुद्गायद्भिरुच्चैर्गायनशीलैः । देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ॥ किंनरैः साधं सह । विभ्राजस्येदं वैभ्राजमित्याख्या यस्य तद्वैभ्राजाख्यम् ॥ "विभ्राजेन गणेन्द्रेण जातं वैभ्राजमाख्यया” इति शंभुरहस्ये॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्विशन्त्यनुभवन्ति ॥ ८॥ (भाव० ) हे मेघ ! यत्र सुरस्त्रीसहचराः धनिनः कामिनो गायकैः किन्नरैः सह वैभ्राजाख्यं बाझोपवनं प्रविशन्ति ॥ ८॥ गत्युत्कम्पादलकपतितैयंत्र मन्दारपुष्पैः .. पत्र(१)च्छेदैः कनकमलैः कर्णविभ्रंशिभिश्च । मुक्ताजालैः स्तनपरिसरच्छिन्नमूत्रैश्च हारैः शो मार्गः सवितुरुदये मुच्यते कामिनीनाम् ॥९॥ ( सञ्जी०) गतीति ॥ यत्रालकायां कामिनीनामभिसारिकाणाम् । निशि भवो नै शो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चल में तस्माद्धेतोरलकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविनंशीनि तैः कनकस्य कमलैः। षष्ट्या विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् ॥ तया मुक्ताजालैमौक्तिकसरैः। शिरोनिहितैरित्य (१) "क्लप्सच्छेद्यैः कनककसलैः कर्लविभ्रशंभिश्च । मुक्तालग्नस्तनपरिमलैश्छिन्नसूत्रैश्च-1 हारैः" इति चारित्रवर्धनीटीकानुसृतः पाठ इति सम्पादकः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96