Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः। ( सञ्जी० ) वास इति ॥ यस्यामलकायां चित्रं नानावण वासो वसनम् । परिधयमण्डनमेतत्। नयनयोविभ्रमाणादेश उपदेशे दक्षम् । अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसंधेयम् । यच्च मण्डनादिवदेहधायेंऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः । इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागोरक्षकद्रव्यम् । लाक्षय रागस्तं लाक्षारागं च ॥ चकारोऽङ्गारागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनसंपादनप्रयास इत्यर्थः ॥११॥ (भाव० ) हे मेघ ! यत्रालकायां प्रतिगृहं वर्तमान एकः कल्पवृक्ष एव स्त्रीणां कृते विचित्रवस्त्राङ्गरागादि सकलं मण्डनं सम्पादयति ॥ ११॥ इत्थमलकां वर्णयित्त्वा तत्र स्वभवनस्याभिज्ञानमाहतत्रागारं धनपतिगृहानुत्तरणास्मदीयं दूराल्क्ष्यं सुरपतिधनुश्वारुणा तोरणेन । तस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १२ ॥ (सजी० ) तत्रेति ॥ तत्रालकायां धनपतिगृहात्कुबेरगृहादुत्तरेणोत्तरस्मिन्नदूरदेशे॥ "एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्प्रत्ययः । “एनपा द्वितीया” इति द्वितीया ॥ "गृहाः पुंसि च भूमन्येव” इत्यमरः॥ अथवा "उत्तरेण" इति नैनप्प्रत्ययान्तं किंतु "तोरणेन" इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिरं तेन लक्षितमित्यर्थः । अस्माकमिदमस्मदीयम् ॥ "वृद्धाच्छः" इति पक्षे छप्रत्ययः ॥ अगारं गृहम् । सुरपतिधनुश्वारुणा मणिमयत्वाभंकपत्वाच्चेन्द्रचापसुन्दरेण तोरणेन । दूराल्लक्ष्य हश्यम् । अनेनाभिज्ञानेन दूरत एवं ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाह-यस्यागारस्योपान्ते प्राकारान्तःपार्श्वदेशे में मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिमसुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्हस्तावचेयैः स्तबकच्छैनमितः ॥ "स्याद्गुच्छकस्तु स्तबका" इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥ १२ ॥ (चारि०) तत्र स्वालयं ज्ञापयितुमाह । तत्रेति--तत्र पुरि धनपतेः कुबेरस्य गृहादुत्तरेणोत्तरतः समीपे ऽस्मदीयं यदागार गृहम् । कीदृशं सुरपतिधनुरिन्द्रचापवच्चारणा मनोजेन तोरणेन दूराल्लक्ष्यम् यस्य गृहस्योद्याने कृतकश्चासौ तनयश्च मे मम कान्तया वल्लभया वर्द्धितः। उदकसेकादिना वृद्धि प्रापितो हस्तेन प्राप्तुं शक्याश्चते स्तबका गुच्छास्तैनमितो बालमन्दारवृक्षोऽस्ति। उत्तरेणेति एनबन्यतरस्यामदूरेऽपञ्चम्या इत्येनप् । अव्ययम् । एनपाद्वितीयेति द्वितीया १२ _(भाव०) हे मेघ ! तत्रालकायां कुबेरप्रासादादुत्तरभागे चारु तोरणाङ्कितं मम गृहमस्ति । यदबहिर्मम कान्तया वद्धितो बालमन्दारतरुः परिचायको वर्तते ॥१२॥ इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाहवापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥१३॥ ८ मेघ० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96