Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८ सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते
(सजी० ) वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गा यस्याः सा तथोक्ता । विदुरे भवा वैदूर्याः । “विदुराज्यः" इति ज्यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि ॥ विकारार्थेऽ णप्रत्ययः ॥ स्निग्धाणि वैदूर्याणि नालानि येषां तहमैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्याल्तोये कृतवसतयः कृतनिवासा हंसास्त्वां मे प्रेक्ष्यापि व्यपगतशुचो वर्षाकालेऽपि व्यपगतकलुषजलत्वाद्वीतदुःखाः सन्तः संनिकृष्ट संनिहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ "आध्यानमुत्कण्ठापूर्वकं स्मरणम्” इति काशिकायाम् ॥ १३ ॥
(चारि०) चिन्हान्तरेण गृहं ज्ञापयति। वापीति-अस्मिन् वापी दीर्घिका चास्ति । कीहशी। मरकतान्येव शिलास्ताभिर्बद्धः सोपानमागी यस्याः सा । हेन इमानि तैर्विकचकमलैविकसितपजैश्छन्ना व्याप्ता । कीदृशैः स्निग्धानि द्युतिमन्ति वैदूर्याणि विदररत्नमयानि नालानि येषां तैः । न केवलं बालमन्दारवृक्ष एव । वापी चेति चकारार्थः। यस्या वाप्यास्तोये कृतकवसतयो हंसा व्यपगता शुक् शोको येषां ते त्वां भवन्तं प्रेक्ष्यापि सन्निकृष्ट समीपं मानसं सरो न ध्यास्यन्ति न स्मरिष्यन्ति । तोयग्रहणं प्रावृट्कालेऽपि नीरस्य प्रसादातिशयसूचनार्थम् ॥ १३ ॥
(भाव०) हे मेघ ! मद्भवनस्थायां निर्मलजलायां वाप्यां वसन्तो हंसास्त्वामागतं वीक्ष्याऽपि मानसं न गमिष्यन्ति ॥ १३ ॥ तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलेः कनकदकलीवेष्टनप्रेक्षणीयः। मद्गहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्ता फुरिततडितं त्वां तमेव स्मरामि ॥ १४ ॥ (सक्षी०) तस्या इति॥ तस्या वाप्यास्तीरे पेशलै श्रारुभिः॥"चारौ दक्षे च पेशलः" इत्यमरः। इन्द्रनील रचितशिखरः । इन्द्रनीलमणिमयशिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधानेन प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः । हे सखे ! उपान्तेपु प्रान्तेषु स्फुरितास्तडितो यस्य तत्तथोक्तम् । इदं विशेषणं कदलीसाम्यार्थमुक्तम् । इन्द्रनीलसाम्य तु मेघस्य स्वाभाविकमित्यनेन सूच्यते । त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः । तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः । कातरेण भीतेन चेतसा । भयं चात्र सानन्दमेव । "वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भीर्यथा भवेत् ॥" इति रसाकरे दर्शनात्। तमेव क्रीडाशैलमेव स्मरामि । एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत एवात्र स्मरणाख्योऽलंकारः । तदक्तम"सहशानुभवादन्यस्मृतिः स्मरणमुच्यते” इति । निरुक्तकारस्तु "त्वां तमेव स्मरामिण इति योजयित्वा मेघे शैलत्वारोपमाचष्टे तदसंगतम् । असल्यापारारोपरय पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेऽपि शालिग्रामे हरिभावनादर्शनादिति ॥१४॥
(चारि०) वापीमेव निरूपयन्नाह । तस्या इति-तस्या वाप्यास्तीरे तटे क्रीडाशैलः पर्वतोऽस्ति । कीदृशः पेशलैः रम्यैरिन्द्रनीलविहितानि शिखराणि यस्य स तथा। कनककदलीनां वेष्टनेन वृत्या प्रेक्षणीयः । हे सखे मित्र ! मद्गेहिन्याः प्रिय इति स्मृतित्वे कारणं संस्कारोबोधहेतुः। 'सदृशदृष्टचिन्ताद्या' इत्युक्तत्वादिन्द्रनीलशिखरेण कदलीवेष्टितेन पर्वतेन
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96