Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते (भाव० ) हे मेघ ! यत्र प्रियै रागादपहृतांशुकाः स्त्रियो लज्जिताः सत्यो सम्मुखस्थान रखदीपान निर्वापयितुं न प्रभवन्ति ॥ ५ ॥ नेत्रा नीताः सततगतिना यद्विमानाप्रभूमी. रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमाग: धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ६ ॥ ( सजी० ) नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ "मातरिचा सदागतिः” इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामग्रभूमीपरिभूमिका नीताः प्रापिताः । त्वमिव दृश्यन्त इति त्वादृशा इत्यर्थः ॥ "त्यदादिषु दृशोऽनालोचने कन्च” इति कन्प्रत्ययः ॥ जलमुचो मेघाः । आलेख्यानां सच्चित्राणाम् । “चित्रं लिखितरूपाढयं स्यादालेख्यं तु यत्नतः" इति शब्दाणवे ॥ नवजलकणेदोष स्फोटनमुत्पाद्य सद्यः शशस्पृष्टा इव सापराधत्वाद्याविष्टा इव ॥ “शडा वितर्कभययोः” इति शब्दार्णवे ॥ धूमोद्गारस्य धूमनिर्गमस्यानुकृतावनुकरणे निपुणा कुशला । जर्जरा विशीर्णाः सन्तो जालमागेंर्गवाक्षरन् निष्पतन्ति निष्कामन्ति ॥ केनचिदन्तःपुरसंचारवता दूतेनगूढवृत्या रहस्यभूमि प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशकाः क्लुप्तवेषान्तरा जाराः क्षुद्रमार्गनिष्कामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ॥६॥ (चारि०) नेत्रेति--भो मेघ यत्र त्वमिव दृश्यन्ते त्वादृशा जलस्य लवं कणिका मुञ्चन्तीतिजललवमुचो नेवा प्रापकेन सततगतिना मरुता विमानाः सप्तभूमिकाः प्रासादाः तेषामग्रभूमि नीताः प्रापिताः सन्तः । आलेख्यानां तत्रत्यचित्राणां सलिलस्य कणिका लवास्ताभिदर्षि नाशरूपमुत्पाद्य सद्यः शङ्कास्पृष्टाः । चित्रविनाशं विलोक्यास्मान् कोऽपि ग्रहीष्यतीति शङ्मानाः । धूमस्योद्वारा निर्गमस्तस्यानुकृतिषु अनुसरणे निपुणाः समर्था । जर्जराः सन्तो यत्र जालैर्मुरजबन्धादिजालनिष्पतन्ति निर्गच्छन्ति ॥६॥ (भाव० ) हे मेघ ! यथा केनचिदन्तःपुरसञ्चारवता पुरुषेण गूढवृत्त्या रहस्यभूमि प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशकाः क्लप्तवेषान्तरा जाराः क्षुद्रमार्गेनिकामन्ति, तथा वायुना यत्प्रासादेषु प्रापितास्तत्र जलकर्णरालेख्यदोषमुत्पाद्य शङ्कास्पृष्टा इव त्वादृशो मेवा जालमार्गनिष्पतन्ति तामलकां व्रज ॥ ६॥ यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासिताना मङ्गग्लानि सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदैश्चन्द्रपादैनिशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७॥ (सभी ) यत्रेति ॥ यत्रालकायां निशीथेऽर्धरात्रे ॥ "अर्धरात्रनिशीथौ द्वौ” इत्यमरः ॥ त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैनिर्मलेश्चन्द्रपादैश्चन्द्रमरीचिभिः ॥ “पादा रश्म्यनितोशामा इत्यमरः॥ स्कुटजललवस्यन्दिन उल्वणाम्बुकणस्राविणस्तन्तुजालावलम्बा वितानलम्बिसनपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गानेपूच्च्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलितालिङ्गानानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानि शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्यालुम्पन्त्यपनुदन्ति ॥ ७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96