Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदूत-उत्तरमेषः । ( सञ्जी० ) हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलाथ कमलं लीलाकमलम् ॥ शरलिङ्गमेतत् । तदुक्तम्- "शरत् पङ्कजलक्षणा” इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेष्वित्यर्थः । बालकुन्दैः प्रत्यग्रमाध्यकुसुमैरनुविद्धम् । अनुवेधो ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति "माध्यं कुन्दम्" इत्यभिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन वालेति विशेषणम् ॥ "अ
लकम्" इति प्रथमान्तपाठे सप्तमी प्रक्रमभङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चेति दो. षान्तरमाह । तदसत् । “स्वभाववक्राण्यलकानि तासाम्” । “निधूतान्यलकानि पाटितमुरः
कृत्स्नोऽधरः खडितः” इत्यादिषु प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥ आनने मुखे लोध्रप्रसवानां लोध्रपुष्पाणां शैशिराणां रजसा परागेण । “प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचन" इति विचः । पाण्डुतां नीता श्रीः शोभा ॥ चूडापाशे केशपाशे नवकुरबकं वासन्तः पुष्पविशेषः । कों चारु पेशलं शिरीष zष्मः पुष्पविशेषः । सीमन्ते मस्तककेशवीथ्याम् ॥ “सीमन्तमस्त्रियां मस्तकेशवीथ्यामुदाहृतम्" इति शब्दार्णवे ॥ तवोपगमः । मेघागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः । अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति न्यायात् । इत्थं कमलकुन्दादितत्तत्कायसमाहाराभिधानादर्थात्सर्वर्तुसमाहारसिद्धिः । कारणं विना कार्यस्यासिद्धेरिति भावः ॥ । यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाःप्रतिहततमोवृत्तिरम्याः प्रदोषाः। . (सजी०) यत्रेति ॥ यत्रालकायां पादपा वृक्षाः नित्यानि पुष्पाणि येषां ते तथा । नत्वतुनियमादिति भावः । अत एवोन्मत्तैर्धमरैर्मुखराः शब्दायमानाः । नलिन्यः पग्रिन्यो नित्यानिपानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः । नित्यं हंसपरिवेष्टिता इत्यर्थः। भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषांते तथोक्ताः । नतु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसा वृत्तिाप्तियेषां ते च ते रम्याश्चेति तथोक्ताः।
आनन्दोत्थं नयनसलिलं यत्र नान्यनिमित्तैनान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात । नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्तिवित्तेशानां न च खलु वयो यौवनादन्यदस्ति ।
( सञ्जी०) आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् ॥ "वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः" इति शब्दार्णवे॥ आनन्दोत्वमानन्दजन्यमेव नयनसलिलम् । अन्यैनिमित्तः शोकादिभिर्न । इष्टसंयोगेन प्रियजनसमागगेन साध्यानिवर्तनीयात् । न त्वप्रतीका
र्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति प्रणयकलहादन्यस्मात्कारणाद्विप्रयोपतिविरहप्राप्तिरपि नास्ति । कि च यौवनादन्यद्वयो वार्धकं नास्ति ॥ श्लोकद्वयंप्रक्षिप्तम् ॥ .
(चारि०) तस्याः परिज्ञानाय चिन्हान्तरमाह-हस्त इति-यत्रालकायां वधूनां सीमन्तिनीनां हस्ते कमलम् । उभयत्र जातावेकवचनम् । एतेन धनात्ययस्य नैकल्यं दर्शितम् । अलके कटिलकेशविन्यासे । इहापि जात्याख्यायामेकवचनम् । बालानां कुन्दानां कुन्दकम
अनबन्धः सम्बन्धोऽनेन हेमन्तस्य सन्निधिः । तथाऽऽननश्रीर्मुखश्रीमुखलक्ष्मी लोध्रस्य वक्षविशेषस्य प्रसवः पुष्पं तस्य रजसा परागेण पाण्डुतां गौरवत्त्वं नीता प्रापिता । एतेन शिशिराभ्यासः । चूडापाशे केशकलापे नवं कुरबकम् । अमुना वसन्तः । करें चारु रम्यं शिरीष शिरीषपुष्पम् । एतेन तपत्ताः सानिध्यम् । सीमन्ते केशसीनि च । नीपं कदम्बपुष्पं त्वदपगमजम् । तवोपगमात्प्रादुर्भूतम्। अनेन वर्षागमस्य सामीप्यम् । अत्र सुवर्णाद्याभरणसम्भारप
For Private And Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96