Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते दीर्घाकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति मुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥ ( सजी० ) दीर्घाकुर्वन्निति । यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु । “प्रत्यूषोऽहर्मुखं कल्यम्" इत्यमरः । पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तमधुरम् । "ध्वनो तु मधुरास्फुटे । कलः" इत्यमरः । सारसानां पक्षिविशेषाणाम् । “सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः" इति यादवः । यद्वा सारसानां हंसानाम् । "चक्राङ्गः सारसो हंसः" इति शब्दार्णवे । कूजित स्त दीर्थीकुर्वन् । विस्तारयन्नित्यर्थः । यावद्वातं शब्दावृत्तरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारिक्रीडापक्षिकूजितमविच्छिन्नीकुर्वन्निति च गम्यते । स्फुटितानां विकसितानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः सुरभिः। “रागद्रव्ये कषायो. ऽस्त्री निर्यासे सौरभे रसे" इति यादवः । अन्यत्र विमर्दगन्धीत्यर्थः । "विमोत्थे परिमलो गन्धे जनमनोहरे । आमोदः सोऽतिनिहारी" इत्यमरः । अङ्गानुकुलो गात्रसुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्रसंवाहन इत्यर्थः । भवभूतिना चोक्तम्- “अशिथिलपरिरम्भैर्दत्तसंवाह. नानि" इति । संवाह्यन्ते च सुरतश्रान्ताः प्रियैर्युवतयः । एतत्कविरेव वक्ष्यति-"संभोगान्ते मम समुचितो हस्तसंवाहनानाम्” इति । शिप्रा नाम काचित्तत्रत्या नदी तस्या वातः शिप्रावातः । शिप्राग्रहणं शैत्यद्योतनार्थम् । प्रार्थना सुरतस्य याच्आ तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थं प्रियवचनप्रयोक्तत्यर्थः । कर्मण्यणप्रत्ययः । प्रियतमो वल्लभ इव स्त्रीणां सुरतग्लानिं संभोगखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्वरतिवेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः । “प्रार्थनाचाटुकारः" इत्यत्र "खण्डितनायिकानुनीता" इति व्याख्याने सुरतः ग्लानिहरणं न संभवति । तस्याः पूर्व सुरताभावात्पश्चात्तनसुरतग्लानिहरणं तु नेदानीन्तनको. पशमनार्थं चाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकिनाम् । "ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता" इति दशरूपके ॥ इतः परं प्रक्षिप्तमपि श्लोकत्रयं व्याख्यायतेहारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् । दृष्ट्वा यस्यां विपणिरचितान्विद्रमाणां च भङ्गान्सलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ हारानिति । यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु । “विपणिः पण्यवी. थिका" इत्यमरः । रचितान्प्रसारितान् । इदं विशेषणं यथालिङ्ग सर्वत्र संबध्यते । ताराञ्छुद्धान् । "तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके” इति विश्यः । तरलगुटिकान्मध्यमणीभूतमहारलान् । “तरलो हारमध्यगः" इत्यमरः । "पिण्डे मणौ महारत्ने गुटिका बद्धपारदे" इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शङ्खाश्च शुक्तीश्च मुक्तास्फोटांश्च ॥ "मु. क्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरखियाम्" इत्यमरः । शप्पं बालतृणं तहच्छ्या. मान् । “शष्पं बालतृणं घासो यवसं तृणमर्जुनम्" इत्यमरः । उन्मयूखप्ररोहानुद्गतरम्याङ्कु. रान्मरकतमणीन्गारुडरत्नानि । तथा विद्रमाणां भङ्गान्प्रवालखण्डांश्च दृष्टा सलिलनिधयः समुद्रास्तोयमात्रमवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः। रत्नाकराद. प्यतिरिच्यते रत्नसंपद्भिरिति भावः ॥ प्रद्योतस्य प्रियदहितर वत्सराजोऽत्र जहे हैम तालद्वनमभूदन तस्यैव राज्ञः। अत्रोद्धान्तः किल नलागिरिः स्तम्भमुत्पाट्य दोदित्यागन्तून्रमयति जनो यत्र बन्धूनभितः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96