Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४ सीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते
(सभी० ) तत्रेति। हिमाद्रौ दृषदि कस्यांचिच्छिलायां व्यक्तं प्रकटं शश्वत्सदा सिद्धांगिभिः ॥ "सिद्धिनिष्पत्तियांगयोः” इति विधः ॥ उपचितबह्वल रचितपूजाविधिम् ॥ "बलिः पूजोपहारयोः” इति यादवः ॥ अर्धश्वासाविन्दुश्चेत्यर्धेन्दुः॥ "श्र्धः खण्डे समेऽशके” इति विधः ॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम् । भक्तिः पूज्येष्वनुरागस्तया नभ्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिगो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युधूतपापा निरस्तकल्मपाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषाः। श्रद्धा विश्वासः । आस्तिक्यबुद्धिरिति यावत् ॥ "श्रदन्तरोरुपसर्गववृत्तिर्वक्तव्या' इति श्रुत्पूर्वाद्दधातः शानच् ॥ करणस्य क्षेत्रस्य विगमादूध्वं देहत्यागानन्तरम् ॥ "करण साधकतम क्षेत्रगानेन्द्रियपुच" इत्यमरः ॥ स्थिर शाचतं गणानां प्रमथानां पदं स्थानम् ॥ "गणाः प्रमथसंख्यौघाः” इति ,जयन्ती ॥ तस्य प्राप्तये संकल्पन्त समर्था भवन्ति ॥ क्लपः पयांतिवचनस्यालमर्थत्वात्तद्योग "नमःस्वस्ति--" इत्यादिना चतुर्थी ॥ "अलमिति पर्याप्त्यर्थग्रहणम्" इति भाष्यकारः ॥ "अव्यक्तं व्यायामास शिवः श्रीचरणद्वयम् ॥ हिमाद्रो शांभवादीनां सिद्धये सर्वकर्मणाम् ।। दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् । इच्छाधीनशरीरो हि विचरेच जगत्त्रयम् ॥ इति शंभुरहस्ये ॥ ५९॥
(चारि०) अन्यदपि मङ्गलमुपदिशति । तत्रेति-भो मेघ तन्न हिमवति दि शिलायां व्यक्तं स्पष्टं अद्धन्दुहेलेमहेशस्य चरणन्यासं भक्त्या नम्रः सन् परीयाः प्रदक्षिणी कुविति भावः। कोहशं शबदनवरतं सिद्धसरसहत उपनीतो बलिः पूजोपहारो यस्य तम् । भावनोत्पादनाय तं प्रकटयति । यस्मिन् वणन्यास दृश्ट सति उद्धृतपारा गतकल्मपाः श्रद्धाना श्रद्धावन्तः प्राणिनः करणस्य शरीरस्य विगमात् त्यागात् उद्धव स्थिरं च तत् गणानां पदं स्थानं च तस्य प्रातये कल्पिव्यसे सम्पत्स्यन्ते । अलं शब्दस्यार्थग्रहणात्पर्याप्तिवाचिनः कृपयोगे चतुर्थी । बलि: पूजापहारे च दैत्यभेदे करेऽपि चेति यादवः । करणं माधकतमंक्षेत्रगात्रेनियेच्चपीति अमरः । अश्वासाविन्दुश्चेति विशेषेण समासः । न तु इन्दोरुद्ध अद्वेन्दुरिति। अ हूँ न पुंसकमिति नपुंसकाईशब्दस्व समासविधानात् । समभिनविभागवाचिन एव नपुंसकत्वात् । शम्भुशिरसि कलामात्रस्युवावस्थानात् तन्त्र हितान्तरमुपदिशति ॥ १६॥
(भाव०) हे मेघ ! तत्र हिमाद्री शिलासुस्पटं शिवपदन्यासं भक्तियुक्तः सन् प्रदक्षिणीकुरु । यस्य दर्शनात् श्रद्धालयो जना देहपातानन्तरं नित्यगणपई लभन्त ॥ ६ ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संसक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । निहादस्ते मुरज इव चेत्कन्दरेषु ध्वनि ! स्या
संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ५६ ॥ ( सञ्जी. ) शब्दायन्त इति ॥ हे मेव, अनिलः पूर्यमाणाः कीचका घेणुविशेषाः "वणवः कीचकास्ते स्युयें स्वनन्त्यनिलोद्धताः” इत्यमरः । “काचको दैत्यभेदे स्थाच्छुकत्रंशे दुमान्तरे” इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायनी शई कुर्वन्ति । स्वनन्तीत्यर्थः ।। "शब्दवैरकलहाभ्रकग्नमे येभ्यः करणे" इत्यादिना क्यङ् ॥ अनेन वंशवाद्यसंपत्तिरुक्ता। संसक्ताभिः संयुक्ताभिवंशवाद्यानुषक्ताभिर्धा ॥ "संरक्ताः” इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किंनरीभिः किनरस्त्रीभिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ “तद्वितार्थीत्तरपद-" इति समासः । पात्रादित्वान्नपुंसकत्वम् ॥ तस्य विजयो गीयते। कन्दरेषु दरीषु । “दरी तु कन्दरी वास्त्री" इत्यमरः ॥ ते तव निहादो मुरजे वाद्यभेदे ध्वनिरिख । मुरजध्वनिरिवेत्यर्थः । स्याञ्चे
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96