Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ सजीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते रयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः प्रमत्ता इत्यर्थः । ताः सुरयुवतीः श्रवणपरुषैः श्रवणकटुभिर्गजितैः करणैर्भाययेस्त्रासयेः ॥ अत्र हेतुभयाभावादात्मनेपदं पुगागमश्च न ॥ ६१ ॥ (चारि०) हितान्तरमुपदिशति । तनेति-भो वारिद तत्र पर्वते सुरयुक्तयो देवाङ्गनास्त्वां भवन्तं यन्त्राणि शालभक्षिकाप्रभुतीनि तत्करतलप्रवृत्तनिराधाराप्रचुरं गृहं यन्त्रधारागृहं तस्य भावस्तत्त्वं अवश्यं निश्चितं नेष्यन्ति । कीदृशं वलयमेव कुलिशं तेन यत् घट्टनं तेनोहीणं वान्तं तोयं येन स तम् । भो सखे धर्मलब्धस्य तव ताभ्यो युवतिभो मोक्षो यदि न न स्यात् । तर्हि क्रीडासु लोलाः सतृष्णास्ता युवतीः श्रवण परुषैः कर्णकर्कशैजितैर्भाययेीषयेः । गर्जितभी तेस्त्रां त्यत्यन्तीति भावः । ननु धर्मलब्धस्येत्यसङ्गतं वर्तुसमयत्वादिति न वक्तव्यम् । कैलासस्य सुरभूमित्वेन षण्णामपि ऋतूनां सम्भवात् । यद्वा धर्मशब्देन श्रमो विवक्षितः । अमलब्धस्येत्यर्थः । हेतुरूपान्मेघात् स्त्रीणां न भयं किं गर्जितात् ॥६१॥ (भाव० ) हे मेघ ! तत्र कौतुकिन्यः सुरयुवतयः कणोद्वनैस्त्वां यन्त्रधारागृहत्वं नेष्यन्ति, हे मित्र ! ताभ्यस्ते सुखेन यदि सोक्षो न भवेत्तर्हि कठोरगर्जनैस्तास्त्रासय ॥ ६१ ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य । धुन्वन्कल्पद्रुमीकमलयान्यंशुकानीव वातैः नानाचेष्टर्जलद ललितनिशिस्न नगेन्द्रम् ॥ ६२ ।। ( सञ्जी० ) हेमेघेति ॥ हे जलद, हेमाम्भोतार्ना प्रसवि जनकम् ॥ "जिदृक्षि-" इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः । पिबन्नित्यर्थः। तस्यैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् ॥ यथा कल्पद्रमाणां किसलयानि पल्लवभूतान्यंशुकानि सूक्ष्मवस्त्रागीय ॥ “अंशुकं वस्त्रमा स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नातिदीप्तौ” इति शब्दार्णरे ॥ वातैमधवातर्धन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैललितः क्रीडितः ॥ "ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रां मदागारे क्रीडिते जातपल्लवे” इति शब्दाणवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्ट निर्विशेः समुपभुक्ष्व ॥ "निवेशो भृतिभोगयोः" इत्यमरः । यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्धिचन्द्रयोः शिखिजीपूतयोः समीराग्न्योर्मित्रता स्श्यमेवेति भावः ॥ ६ ॥ (चारि० ) गुणादिना प्रलोभयति-हेमाम्भोजेति। भो मेघ तं नगेन्द्र कैलासं निविशेः अ. नुभवः । कीदृशः हेनो जातानामम्भोजानां प्रसवो जननमस्य मानससरोविशेषस्य सलिलमाइदानः । कामं यथेच्छे ऐरावतस्य गजस्य क्षणं मुहन मुखपटनीति मुखावगुण्ठनवस्त्रलाभप्रीति कुर्वन् जनयन् सजलपृषतः जलकणिकासहितैतिः कल्पवृक्षकिसलयभूतानि अंशुकानि वस्त्राणि धुन्वन् कम्पयन् । पुनः कीदृशस्त्वम् । छायया प्रतिबिम्न भिन्नः सङ्गतः सन् कीदृशं नगेन्द्रं स्फटिकविशदं निर्मलम् । यथा कोऽपि सखा मित्रालयं गत्वा तत्सम्बन्धीनि दीर्घिकावाहनारामप्रभृतीनि यथाकामं निर्विशति तद्वदिति ध्वनिः । प्रसवो जननानुज्ञा पत्रेषु फलपुउपयोरिति यादवः ।। ६२ ॥ ( भाव० ) हे शेत ! सुवर्ण र पार जनकं मानसजलं पिवन, ऐरावतस्य प्रीतिं जनयन् , मेघवातहारा कल्पद्गकिसलयानि कम्पयन् कैलासमुपभुश्व ॥६२ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96