Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ सञ्जीवनीचारित्रवर्द्धनीभाव प्रबोधिनीसहिते ( भाव०) हे मेघ ! हिमवत्तटे दर्शनीयानर्थान् वीक्ष्य परशुरामप्रतापसूचकेन क्रौञ्चबि - लेनोतरां दिशं गच्छ, तदा त्वं बलिनियमनोद्यतस्य विष्णोः श्यामः पाद इव शोभिन्यसे ॥ ६७ ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थ सन्धेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शृङ्गेोच्छ्रयैः कुमुदविशदेयों वितत्य स्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ५८ ॥ (स० ) गत्येति ॥ क्रौञ्च बिल निर्गमनानन्तरमूध्वं च गत्वा दशमुखस्य रावणस्य भुबहुभिरुच्छ्वासिता विपिताः प्रस्थानां सानूनां संघयो यस्य तस्य ॥ एतेन नयनकौतुकलाव उक्तः ॥ त्रिदेशपरिमाणमेवामस्तीतित्रिदशाः ॥ "संख्ययाव्यया-" इत्यादिना बहुव्रीहिः । "बहुव्रीहौ संख्येये डच् -" इत्यादिना समासान्तो इजिति क्षीरस्वामी ॥ त्रिदशानां देवानां वनितास्तासां दर्पणस्य || कैलासस्य स्फटिकत्वाद्वजतबवत्तद्वा बिम्बग्राहित्येनेदमुक्त - म् || कैलासस्यातिथिः स्याः । यः कैलासः कुमुदविशदैनिर्मलैः शृङ्गाणामुच्छ्रायैरौन्नत्यै: खमाकाशं वितत्य व्याय प्रतिदिनं दिने दिने राशीभूतस्त्रयम्बकस्य त्रिलोचनस्याट्टहासोऽतिहास इव स्थितः || "अट्ठावतिशमक्षौमौ" इति यादवः ॥ धावल्याद्धासत्वेनोत्प्रेक्षा । हासादीनां धावल्यं कविसमयसिद्धम् ॥ ५८ ॥ I 1 ( चारित्र ) अतः परं मार्गमुपदिशति । गत्येति-तेन रन्ध्रेणोद्धं गत्वा कैलासस्यातिथिः याः भवेतं गच्छ रित्यर्थः । कीदृशस्य दशमुखस्य रावणस्य भुजैरुवासितो विघटितः प्रस्थानां सानूनां सन्धिर्यस्य रूप्यमयत्वात् । तथा त्रिदशवनितानां दर्पणः स्स्या ननु । त्रिदशवनितादर्पणस्येत्युक्तम्, मेववायोः स्पर्शनान्मालिन्यप्रसङ्गात्कथं सम्भवेदित्याशङ्कयाह । कैलासस्य महत्तया मालिन्यं न भवतीति महत्तां दर्शयति । यः कैलासः कुमुदवद्विशदैनिशृङ्गायैः खमाकाशं वितत्य विस्तीर्य प्रतिदिशं दिशि दिशि राशीभूतस्त्रयम्बकस्य शम्भोरहास उद्भटहास इव स्थितः । चकारो गत्यानन्तर्यसमुच्चार्थः । दशमुखेत्यादिविशेषमयुक्तमिति न वाच्यम् । अभिगम्यस्य शैलस्याभिभत्रवाचित्वादिति वाच्यम् । अन्यानुत्येतस्ततः प्रक्षेप्तुं शक्नोति यः तेनास्येतस्य सारवत्तया प्रस्थोछ्वासमात्रमेव कृतमिति उत्कर्षस्य विवक्षितत्वात् ॥ ५८ ॥ ( भाव० ) हे मेव ! ततः परं त्वं रावणभुजचालित शिखरसन्धेः स्फटिकादेः कैलासस्यातिथिर्भय । यः प्रतिदिननुचितस्त्रयम्बकल्याहहास इव स्थितोऽस्ति ॥ १८ ॥ उत्पश्यामि वाटते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । शोभामद्रेः स्तिमितनयन प्रेक्षणीयां भवित्री मंसन्यस्ते सति इलभृतो मेचके वाससीव ॥ ५९ ॥ ( सञ्जी० ) उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्याभेवाभा यस्य तस्मिंस्त्वयि तगते सार्नु गते सति सद्यःकुत्तस्य छिन्नस्य द्विरददशनस्य गलदन्तछेदौर धवलस्य तस्याद्रेः कैलासस्य मेचके श्यामले ॥ " कृष्णे नीलासितश्यामकालश्यामलमेचकाः” इत्यमरः ॥ वाससि वस्त्रेऽन्यस्ते सति हलतो बलभद्रस्येव स्तिमिता य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96