Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदूते-पूर्वमेघः ।
नृत्यारम्भे हर पशुपतेराईनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥ (सी० ) पश्चादिति । पश्चात्संध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रा. सम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमारुणं संध्यायां भवं सान्ध्यं तेजो दधानः । उचै रुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणाभिलीनोऽभिव्यासः सन् । कर्तरि फतः । भवान्या भवपत्न्या। "इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुका इति ङीष् । आनुगागमश्च । शान्त उद्वेगो गजाजिनदर्शनभयं ययोस्ते अत एव स्तिमिते निश्चले नयने यस्मिन्कर्मणि तत्तथोक्तम् । "उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि" इति शब्दार्णवे । भक्तिः पूज्येष्वनुरागः । भावार्थे तिन्प्रत्ययः। दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरा शोणिता यन्नागाजिनं गजचर्म । "अजिनं चर्म कृत्तिः स्त्री" इत्यमरः । तमेच्छां हर निवर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महादेवस्तदीयमार्दाजिन भुजमण्डलेन विभ्रत्ताण्डवं चकारेति प्रसिद्धिः। दृष्टभक्तिरिति कथं रूपसिद्धिः । दृष्टशब्दस्य "स्त्रियाः पुंवत्-" इत्यादिना पुंवद्रावस्य दुर्घटत्वादप्पूरणीप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यं दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं पूर्वपदम् । अदाढयनिवृत्तिपरत्वे दृढशब्दाल्लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्वमविवक्षितमिति । भोजराजस्तु-"भक्तौ च कर्मसाधनाया. मित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति । भावसाधनायां तु स्थिरभक्तिर्भवान्यामित्यादि भवति" इत्याह । तदेतत्सवं सम्यग्विवेचितं रघुवंशसंजीविन्या "दृढभक्तिरिति ज्येष्टे" इत्यत्र । तस्माददुष्टभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिन्दिरस्तीति स्थितम् ॥ ३६॥
(चारि०) पश्चादिति-भो मेघ ! त्वं नृत्यारम्भे नर्तनोद्यमे पशुपतेर्महादेवस्य आर्द्रनागाजिनेच्छां हर । आर्द्रस्य रुधिरावलिप्तस्य गजाजिनस्य हस्तिचर्मणः इच्छां वाञ्छां हर दूरीकुरु । त्वं कीदृशः पश्चान्मण्डलेन अपरदेशेन उच्चैरुन्नतानां भुजतरूणां वृक्षविशेषाणां वनं काननं अभिलीनः प्राप्तः किं कुर्वाणः सान्ध्य सन्ध्यासम्बन्धि तेजो दधानः । तेजः कीदृशं प्रति नवे नवीनं यज्जपापुष्प बन्धूककुसुमं तद्वदिव रक्तमरुणम् । त्वं कीदृशः । भवान् पार्वत्या दृष्टभक्तिः विलोकितसेवः । कथं यथा स्यात् शान्तोद्वेगेन गतक्लमेन स्तिमिते निश्चले नयने यत्र दर्शने तत्तथा। मण्डले परिधौ कोष्ठे देशे द्वादशराशिष्विति मेदि० । स्तिमितोऽचञ्चलायोरिति मे० । उद्वेगं क्लमकीलके ॥ ३६ ॥
(भाव०) हे मेघ ! तत्र महाकालताण्डवसमये सान्ध्यं रक्त तेजो दधानस्त्वं शिवस्य भुज. वनमध्ये मण्डलाकारेण प्रविश्य भगवत आगजाजिनधारणेच्छां पूरय । तदानीं भगवती भवानी तव भक्ति शान्तया निश्चलया च दृष्टया सादरं वक्ष्यति ॥ ३६ ॥ इत्थं महाकालनाथस्य सेवाप्रकारमभिधाय पुनरपि नगरसंचारप्रकारमाहगच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामन्या कनकनिकपस्निग्धया दर्शयोवों
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ३७॥ (सञ्जी० ) गच्छन्तीनामिति । तत्रोजयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभवनं प्रति
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96