Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते -पूर्वमेघः। स्त्री खिन्ना भवति शिथिलशरीरा जायते । खलु निश्चितं मुहृदां मित्राणां अभ्युपेताः स्वीकृता अथें प्रयोजने कृत्या कार्यक्रिया यैस्ते न मन्दायन्ते न सालसा भवन्ति । कलनं श्रोणिर्भाययोः। कृत्या क्रियादेवतयो रित्यमरः ॥ ३८॥ (भाव० ) हे मेघ ! तत्र रात्रौ सुचिरं वर्षणेन शान्तविद्युद्वनितस्त्वं तां रात्रि तत्रैव यापयित्वा अङ्गीकृतसुहृत्कार्यः प्रातरेव समुत्थायाऽग्निमं मागं गच्छ ॥ ३८ ॥ तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्ति नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । पालेयास्त्रं कमलबदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ३९ ॥ ( सञ्जी० ) तस्मिन्निति ॥ तस्मिन्काले पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रियतमैः खण्डितानां योषितां नायिकाविशेषाणाम् ॥ "ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता" इति दशरूपके ॥ नयनसलिलं शान्ति नेयं नेतव्यम् ॥ नयतिढिकर्मकः ॥ अतो हेतो नोर्बाशु शीघ्रं त्यज । तस्यावरको मा भूरित्यर्थः । विपक्षेऽनिष्टमाचष्टे-सोऽपि भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ "तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्" इति शब्दार्णवे ॥ तस्याः स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवानमश्रुहः शमयितुं प्रत्यावृत्तः प्रत्यागतः। नलिन्याश्च भर्तुर्भानोदेशान्तरे नलिन्यन्तरगमनात्खण्डितत्वमित्याशयः । ततस्त्वयि । करानंशून्रुणहीति कररुत् । क्विए । तस्मिन्कररुधि सति। हस्तरोधिनि सतीति च गम्यते ॥ "बलिहस्तांशवः कराः" इत्यमरः । अनल्पाभ्यसूयोऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोपविशेषश्च कामिनां भवतीति भावः । किंच "आत्मानं चार्कमीशानं विष्णुं वा द्वेष्टि यो जनः । श्रेयांसि नस्य नश्यन्ति रौरवं च भवेध्रुवम् ॥” इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥ ३९॥ (चारि०) तस्मिन्निति-भो मेघ तस्मिन्काले प्रातः समये प्रणयिभिः खण्डितानां योपिता उचितवासकगृहानागतप्रियसन्तप्तानां वीणां नयनसलिलं लोचनपानीयं शान्ति नेयं प्रापयितव्यम् । अतो हेतो नोः श्रीसूर्यस्य वर्त्म मार्ग त्यज विमुञ्च । कथं आशु शीघ्रम् । सोऽपि सूर्यः त्वयि अनल्पाभ्यसूयः अधिकष्यः स्यात् । कि विशिष्टे त्वयि । कररुधि करान् किरणान् रुणद्वीति कररुत् तस्मिन् । स किं भूतः। नलिन्याः कमलिन्याः कमलबदनात् । कमलं पद्म तदेव वदनं तस्मात् । प्रालेयाखं प्रालेयं हिमं तदेवानं अश्रु तत् हतुं दूरीकतुं प्रत्यावृत्तः पुनरागतः । कुतश्चिन्नागतो यस्या उचिते वासके प्रियः । [? खण्डि०] ता सा मता यथेति वसन्ततिलके । अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथेत्यमरः । अस्त्रः कोणे कवे पुंसि क्लीबमश्रुणि शोणिते ॥ ३९ ॥ (भाव० ) हे मेघ ! प्रभाते खण्डितानां नयनजलं प्रियैरपनेयमिति हेतोः सूर्यस्य माग परित्यज । सब सूर्यः प्रियाया नलिन्याः कमलरूपाद्वदनात् प्रालेयरूपं बाष्पमपनेतुं प्रवृत्त स्त्वय्यन्तराये सति त्वयि सासूयः स्यात्॥३९॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिमुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यहसि त्वं न धैर्या न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ १० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96