Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते
गच्छन्तीनां योषिताम् । अभिसारिकाणामित्यर्थः ।। सूचिभिर्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्रालोके निरुद्धदृष्टिप्रसारे नरपतिपथे राजमार्ग कनकस्य निकषो निकम्यत इति व्युत्पत्त्या निकष उपलगतरेखा तस्येव स्निग्धं तेजो यस्यास्तया । "स्निग्धं तु मसृणे सान्द्रे रम्ये क्लीवे च तेजसि” इति शब्दार्णवे । सुदाम्नाद्विणैकदिक्सौदामनी विद्युत् " तेनैकदिक्" इत्यण्प्रत्ययः । तयोर्वी मार्ग दर्शय । किंच तोयोत्सर्गस्तनिताभ्यां दृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्मभूः । कुतः । ता योषितो विक्कुवा भीरवः । ततो वृष्टिगर्जिते न कार्यं इत्यर्थः । नात्र तोयोत्सर्गसहितं स्तनितमिति विग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् । न च द्वन्द्वपक्षेऽल्पाच्तरपूर्वनिपातशास्त्रविरोधः "लक्षणहेत्वोः क्रियायाः" इति सूत्र एव विपरीत निर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥ ३७ ॥
( चारि०) गच्छन्तीनामिति - भो मेघ ! तत्र नक्तं रात्रौ रमणवसतिं कान्तवेश्मगच्छ. न्तीनां व्रजन्तीनां योषितां नरपतिपथे राजमार्गविषये सौदामन्या विद्युता उवीं दर्शय । की मार्गे सूचिभेधैर्निबितमोभिरन्धकारैः रुद्ध आच्छादित: आलोक: उद्योतः प्रकाशो यस्मिन् । सौदामन्या कश्या कनकनिकषवत् सुवर्णपरीक्षापाषाणवत् स्निग्धया मनोज्ञया गौरवर्णयेत्यर्थः । तोयोत्सर्गेण जलत्यागेन यत् स्तनितं तेन मुखरः शब्दायमानस्त्वं मा स्मभूः । कुतो यतस्ता योषितो विक्लवाः । वसती रात्रिवेश्मनोरित्यमरः । तडित्सौदामनी विद्युच्चचला चपला अपोत्यमरः । आलोकौ दर्शनयोतावित्यमरः ॥ ३७ ॥
(भाव०) किञ्च हे मेघ ! उज्जयिन्यां निशि, प्रियसदनं गच्छन्तीनामभिसारिकाणां मागें नीरन्ध्रेण तमसा व्याप्ते सति विद्युदालोकेन ताभ्यो मार्ग दर्शय । सुकुमारास्ता गर्जनैर्न च भीषयेः ॥ ३७ ॥
कस्यचिद्भववलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्न विद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८ ॥
( सञ्जी० ) तामिति ॥ चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलनं यस्य स भवासुप्ताः पारावताः कलरवा यस्यां तस्याम् । विविक्तायामित्यर्थः ॥ "पारावतः कलरवः कपोतः" इत्यमरः ॥ जनसंचारस्तत्रा संभावित एवेति भावः । कस्यांचिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः ॥ " आच्छादनं स्याहलभी गृहाणाम्” इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे सति । उदिते सतीत्यर्थः । पुनरप्यध्वशेषं वाहयेत् । तथाहि सुहृदां मित्राणामभ्युपेतार्थस्याङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते | अभ्युपेतसुहृदर्था इत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ "कृत्या क्रियादेवतयोः कायें स्त्री कुपिते त्रिषु" इति यादचः ॥ "कृञः श च" इति चकारात्क्यप् ॥ न मन्दायन्ते खलु न मन्दा भवन्ति हि । न विलबन्त इत्यर्थः ॥ "लोहितादिडाज्भ्यः क्यष्" इति क्यष् । “वा क्यषः" इत्यात्मनेपदम् ॥ ३८ ॥
( चारि०) तामिति - भो मेघ ! सूर्ये भास्करे दृष्टे विलोकिते सति पुनरपि भूयो भवान् अध्वनो मार्गस्य शेषं वाहयेत्प्राप्नुयात् । किं कृत्वा कस्यां चित् भवनवलभौ गृहाट्टालिकायां तां रात्रिं नीत्वा गमयित्वा । किंविशिष्टायां सम्पारावतायां सप्ताः पारावताः गृहकपोता यस्यां सा तस्याम् । भवान् किंभूतः । खिन्नविद्युत्कलनः खिन्ना चमत्काररहिता या विद्युत्सौ. दामनी सैव भार्या यस्य सः । कस्मात् । चिरविलसनात् चिरं चिरकालं विलसन चमत्कारस्तस्मात् । अन्यस्याऽपि रममाणस्य विलासिन: बहुकालं सुरतकरणात् अवश्यमेव
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96