Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० सञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनी सहिते afra | अधरछायेत्यनेन पुण्यदेशत्वात् स्वरूपेणाक्रमणं न युक्तमिति सूच्यते युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । मूर्द्धाभिषिक्तो राजन्य इत्यमरः । सरस्वती हपद्वत्योर्देवनद्योदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ ४८ ॥ ( भाव० ) हे मेघ ! ततः परं छायामात्रेण ब्रह्मावर्तं देशं प्रविश्य कुरुक्षेत्रं गच्छ । यत्र वं जलैः कमलानीव पार्थः क्षत्रियाणां शिरांसि शरैरभ्यवर्षत् ॥ ४८ ॥ हित्वा हालामभिमतरसां रेवतीलोचनाङ्का बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सौम्य सारस्वतीना मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९ ॥ तस्माद्गच्छेरनुकनखल शैलराजावतीर्णां जन्होः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरवक्त्र कुटिरचनां या विहस्येव फेनैः शंभो: केशग्रहणमकरोदिन्दुलग्नोर्महस्ता ॥ ५० ॥ ( सञ्जी० ) हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन ॥ न तु भयेन । समरविमुखो युद्धनिःस्पृहः । लाङ्गलमन्यास्तीति लाङ्गली हलधरः । अभिमतरसामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वाच्चिह्नं यस्यास्तां हालां सुराम् ॥ "सुरा हलिप्रिया हाला" इत्यमरः ॥ "अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देशभापापदमप्यतीव कविप्रयोगात्साधु” इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजामपीति भावः । याः सारस्वतीरपः सिषेवे ॥ हे सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ " ण्वुल्तृचौ” इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ “वर्तमानसामीप्ये वर्तमानवद्वा" इति वर्तमानप्रत्यमः ॥ वर्णमात्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तःशुद्धिरेव संपाद्या न तु बा । बहिः शुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निःर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः ॥ ४९ ॥ ( सञ्जी० ) तस्मादिति तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् || "अनुर्यत्यमया" इत्यव्ययीभावः ॥ शैलराजादिमवतोऽवतीर्णा सगरतनयानां स्वर्ग सोपानपङ्क्तिम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नोर्नाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ ॥ विध्यर्थं लिङ् ॥ या जाह्नवी गौर्या वक्त्रे या भ्रुकुटिरचना सापत्न्यशेषाद्भूभङ्गकरणं तां फेनैर्विहस्यावहस्ये । धावल्यात्फेनानां हासत्वेनोत्प्रेक्षा । इन्दौ शिरोमाणिक्यभूते लग्ना कर्मय एव हस्ता यस्याः सेन्दुनोर्मिहस्ता सती शंभो: केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका सपत्नीमसहमामाना स्वाभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्षति तद्वदिति भावः ॥ इ च पुरा किल भगीरथप्रार्थनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जग्राहेति कथामुपजीव्योक्तम् ॥ ५० ॥ ( चारि० ) तस्मादिति - हे मेघ तस्मात्कुरुक्षेत्रात् कनखलाख्यस्य पर्वतस्य समयाऽनु कनखलं कनखलसमीपस्थां शैलराज हिमालयदवतीर्णो प्रवृत्तां जन्हुकन्यां गङ्गां गच्छेः । कीदृशीम् । सगरनाम्नो भूपस्य तनयानां पुत्राणां स्वर्गसोपानपङ्गि स्वर्गारोहणनिश्रेणी या For Private And Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96