Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघदते-पूर्वमेघः। तासां विभ्रमा विलासाः परिचिताः क्लता येषु तेषां पक्ष्माणि नेत्रलोमानि ॥ "पक्ष्म सूत्रे च सूक्ष्मांशे किचल्के नेत्रलोमनिः" इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशबलाः ॥ "वर्णो वर्णेन" इति समासः ॥ "कृष्णरक्तसिताः शाराः" इति यादवः । ततश्च शारशब्दादेव सिद्ध काण्ये पुनः कृष्णपदोपादानं कायॆप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारात्तस्य स्वाभाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात् । क्वचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्पः कृष्णशाराः प्रभा येषां तेपाम् । कुन्दानि माध्यकुसुमानि॥ "माध्यं कुन्दम्" इत्यमरः ॥ तेषां क्षेप इतस्ततश्चलनं तस्यानुगा अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् । क्षिप्यमाणकुन्दानुविधायिमधुकरकल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य नगरं तस्य वध्वः स्त्रियः ॥ "वधूर्जाया स्नुषा स्त्री च” इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । साभिलाषदृष्टीनामित्यर्थः । आत्मबिम्ब स्वमूर्ति पात्रीकुर्वन्व्रज गच्छ ॥ ४७॥
(चारिक ) अन्यलाभकथनेन प्रोत्साहयन्नाह-तामिति-भो मेघ तां चर्मण्यतीमुत्तीर्य दशपुराभिधाने नगरे बधूनां नेत्रकौतूहलानामात्मबिम्ब निजस्वरूपं पात्रीकुर्वन् गोचरतां नयन् व्रज याहि । कीदृशानां परिचितभ्रूलतानां विभ्रमा दिलासा येषां तेषां विलोकने पक्ष्मणामु
क्षेपादुपरि विलसन्त्यः कृष्णशाराश्चित्रवर्णाः प्रभा येषां तेषांम् । कुन्दपुष्पाणां क्षेपमनुगच्छतां मधुकराणां भ्रमराणां श्रियं च शोभां मुष्णन्ति तेषाम् । कृष्णरक्तः शितः शार इति यादवः । अन्न रक्तशितमात्रे वर्तते पृथक् कृष्णपदोपादानात् ॥ ४७ ॥
(भाव० ) हे मेघ । चर्मण्वतीमुत्तीर्य विलासिनीनां कुतूहलादुन्मुखीनां दशपुरवधूवां नयनोत्सवं वितन्वन् गच्छ ॥४७॥ ब्रह्मावर्त जनपदमथ च्छायया गाहमानः
क्षेत्र क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्या
धारापातस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥४८॥ ( सञ्जी० ) ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावत नाम जनपद देशम् ॥ अन मनुः--'सरस्वतीहषद्वत्योदेवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावतं प्रचक्षते ॥” इति ॥ छाययानातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण । “पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्” इति वचनात् । क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपाण्डवयुद्धसूचकमित्यर्थः । "युद्धमायोधनं जन्यं प्रधन प्रविदारणम्" इत्यमरः ॥ तत्प्रसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः । कुरुक्षेत्रं व्रजेत्यर्थः । यत्र कुरुक्षेत्रे गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ "गाण्ड्यजगात्संज्ञायाम्” इति मत्वर्थीयो वप्रत्ययः ॥ कपिध्वजस्य स गाण्डीवगाण्डिवो पुनपुंसको, इत्यमरः ॥ तद्धनुर्यस्य स गाडीवधन्वाऽर्जुनः ॥ "वा संज्ञायाम्" इत्यनादेशः ॥ सितशरशतैनिशितबाणसहस्बै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं वृष्टवान् शरवर्षेण शिरांसि चिच्छेदेत्यर्थः ॥ ४८ ॥
(चारि०) पवित्रजनपदस्पर्शनेनान्यमङ्गलमुपदिशति-ब्रह्मावर्तमिति । भो जलद अधश्छायया ब्रह्मावर्ताभिधानं जनपदं देशं गाहमानः सन् तत्कुरूणां सम्बन्धि कौरवं क्षत्राणामिदं क्षेत्रं भजेथा आश्रय । कीदृशम् । क्षत्रप्रधनपिशुनं क्षत्रिययुद्धसूचकम् । यत्र कुरुक्षेने गाण्डीवं धनुर्यस्य सोऽर्जुनः शितानां तीक्ष्णानां शराणां शतै राजन्यानां भूपानां मुखानि अभ्यवर्षन् अभिषिञ्चन पूरयाञ्चके इत्यभिप्रायः । कैः कानि क इव । धारापातैनिरन्तरवर्षेः कमलानि
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96