Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत - पूर्वमेघः । ३७ नेत्रान्तम् ॥ "अपाङ्गौ नेत्रयोरन्तौ” इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ "अत इज्" इति इञ् ॥ यस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रे देवगिरेः कर्तुः ॥ ग्रहणेन गुहासंक्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । गर्जितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं कुमारमुपास्स्वेति भावः ॥ " नर्तयेथाः" इत्यत्र “अणावकर्मकाच्चित्तवत्कर्तृकात" इत्यात्मनेपदापवादः । “निगरणचलनार्थेभ्यश्च" इति परस्मैपई न भवति तस्य "न पादम्याइयमाङयसपरिमुहरुचिन्रतिवदवसः” इति प्रतिषेधात् ॥ ४४ ॥ 1 ( चारि ) ज्योतिरिति भो मेघ पश्चात् स्कन्दार्थनादनन्तरं पावकेः स्कन्दस्य तं मयूरं गर्जितमनिष येथाः । कीदृशैः । अद्रिग्रहणगुरुभिः । अद्विग्रहणेन कन्दरा मध्यसञ्चरन गुरुभिः । कीदृशं मयूरं । हरशशिरुवा हरस्य महादेवस्य शशिरकु चूडाचन्द्रज्योत्स्ना तया धौती उज्वलकृत अपाङ्गौ नेत्रान्तौ यस्य स तम् । तं कम् । भवानी पार्वतीपुत्रस्य कार्तिकेयस्य प्रेमा स्नेहस्तेन यस्य बह पिच्छे कर्णे करोति । कीदृशम् । कुवलयदलक्षेपि । शोभाधिक्यात कुवलयानां नीलोत्पलानां दलानि पत्राणि क्षेप्तुं तिरस्कर्तुं शोलं यस्य तत्तत् । कुत्रलयदलप्रापीति पाठे सप्तम्यन्तं कर्मविशेषणम् । अतिशयाभीष्टपुत्रवाहननर्तनेन पार्वती तव प्रसन्नतमा भविष्यतीति भावः । पुनः कीदृशं ज्योतिर्लेखावलयि । ज्योतिलेखाश्चन्द्रिका स्ता एव वलयास्ते सन्ति यस्य तत्तत् । पुनः कीदृशं गलितं स्वतः पतितं नतुत्पाटितमिति भावः ॥ ४४ ॥ ( भाव० ) तत्र स्कन्दस्य नित्यं सन्निहितं तद्वाहनं मयूरं कन्दराप्रतिध्वानमहत्तमै - गर्जनैर्नर्त्तय । यस्य मयूरस्य गलितं पिच्छे पुत्रवाहनस्येदमिति सप्रेम कात्यायनी क कुरु ॥ ४४ ॥ आराध्यैनं शरवणभवं देवमुल्लङ्गिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५ ॥ ( सञ्जी०) आराध्येति ॥ एनं पूर्वोक्तं शरा बागतृणानि ॥ "शरो बाणे बागतृणे" इति शब्दार्णवे ॥ तेषां वनं शरवणम् ॥ " प्रनिरन्तःशर-" इत्यादिना णत्वम् ॥ तत्र भवो जन्म यस्य तं शरवणभत्रम् ॥ "अवज्यों बहुब्रीहिर्व्यधिकरणो जन्मायुत्तरपदः" इति वामनः । अवज्योऽगतिकत्वादाश्रयणीय इत्यर्थः ॥ देवं स्कन्दम् || " शरजन्मा षडाननः" इत्यमरः ॥ आराध्योपास्य । वीणिभिवणावद्भिः ॥ व्रीह्मादित्वादिनिः ॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः । भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः । जलकणभयात् । जलसेकस्य वीणाक्वणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गरुत्यक्तवर्मा सन्नुलङ्घिताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य कीर्तिम् । चर्मग्वत्याख्यां नदीमित्यर्थः । मानयिष्यन्सत्कारयिष्यन्व्यालम्बेथाः । आलम्ब्यावतरेरित्यर्थः । पुरा किल राज्ञो रन्तिदेवस्वालम्भेध्येकत्र संमृताक्तनिष्यन्दाच्चर्मराशेः काचिन्नही सस्यन्दे । सा च त्याख्यात इति ॥ ४५ ॥ ( चारि०) अराध्यनमिति - भो मेघ एनं पूर्वोक्तं शरवणभवं शरजन्मानं कार्तिकेयं आरा ध्य पुष्पासारैः सम्पूज्य उल्लङ्घितो विक्रान्तोऽध्वा मार्गों येन स तथा वीणाः सन्त्येषां वीणिभिः सिद्धमिथुनर्मुक्तः मार्गों यस्य स त्वं व्यालम्बेथाः विलम्बं कुर्याः । किं करिष्यन् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96